पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/291

पुटमेतत् सुपुष्टितम्
२४६
पातञ्जलयोगसूत्रभाष्यविवरणे



[ भाष्यम् ]

 परमार्थतस्तु एक एव परिणामः । धर्मिस्वरूपमात्रो हि धर्मः । धर्मिविक्रियैवैषा धर्मद्वारा प्रपञ्च्यत इति । तत्र धर्भस्य धर्मिणि वर्तमानस्यैव अध्वसु अतीतानागतवर्तमानेषु भावान्यथात्वं भवति, न[१] द्रव्यान्यथात्वम् । यथा सुवर्णभाजनस्य भित्त्वा अन्यथा क्रियमाणस्य भावान्यथात्वं भवति न सुवर्णान्यथात्वम् इति ।

 अपर आह-[२]धर्माभ्यधिको धर्मी । पूर्वतत्त्वात् अनतिक्रामन् पूर्वापरावस्थाभेदं अनुपतितः कौटस्थ्येनापि परिवर्तेत यद्यन्वयी स्यात् इति ॥



[ विवरणम् ]

 परमार्थतस्त्वेक एव परिणामः । कथम् ? धर्मिस्वरूपमात्रो हि धर्मः। न हि धर्मिपरिहारेण धर्मों नाम पृथगस्ति । नापि धर्मपरित्यागेन लक्षणं नाम पृथक् भाव्यते । नापि लक्षणव्यतिरेकेण अवस्थानां पृथक्त्वं भवति । तेन धर्मिविक्रियैवैषा धर्मद्वारा धर्मभेदद्वारेण त्रिधा प्रपञ्च्यते ॥


 कथं पुनर्धर्मिविक्रियैवैषा । न पुनरत्यन्तापूर्वोत्पत्तिविनाशाविति ? तत आह-तत्र धर्मस्य घटादे: धर्मिणि मृदाख्ये वर्तमानस्य अध्वस्वतीतानागतवर्तमानेषु भावान्यथात्वमेव प्रत्ययान्यथात्वम्, अतीतो घटः, वर्तते, अनागतः, इति च धर्मिणि वर्तमानस्यैव । स एव धर्मस्याविर्भावतिरोभावान्यथात्वम् । न द्रव्यान्यथात्वं तदेव मृदूद्रव्ये धर्मि रूपान्तरं च ॥

 उदाहरणं परिदर्शयति-यथा सुवर्णभाजनस्य भित्त्वा अन्यथा कुण्डलादिभावेन क्रियमाणस्य भावान्यथात्वं स्वस्तिककुण्डलादिसंस्थानान्यत्वम् । न सुवर्णद्रव्यान्यथात्वमिति ॥

{{gap}}अपर आह असत्कार्यसमारम्भाभिमानी-धर्माभ्यधिको धर्मव्यतिरिक्तो धर्मी, धर्मश्चाविद्यमानोऽन्यश्चान्यश्च समुदायिष्यते । न पुनरेको धर्मी धर्मेषु भूतभविष्यद्वर्तमानेषु धर्माव्यतिरिक्तोऽन्वयीति ॥

 यद्यन्वयी धर्मानभ्यधिको धर्माव्यतिरिक्तः पूर्वतत्त्वात् पूर्वपूर्वद्रव्यस्वरूपात् अनतिक्रामन् पूर्वापरावस्थाभेदम् अतीताद्यवस्थाभेदम् अनुपतितः अनुगतः स्यात् , ततश्च एष दोषः प्रसजति-स धर्मी तवाभिमतः कौटस्थ्येनापेि परिवर्तेत अपरिणामित्वे वर्तेत ॥


  1. न तु द्र-
  2. धर्मानभ्यधिको धर्मी पूर्वतत्त्वानतिक्रमात् । पूर्वापरावस्थाभेदमनुपतितः कौटस्थ्येनाव परिवर्तेत यद्यन्वयी स्यात् इति ।