पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/293

पुटमेतत् सुपुष्टितम्
२४८
पातञ्जलयोगसूत्रभाष्यविवरणे

 नायं दोषः । वस्तूनां व्यक्ताव्यक्तधर्मकत्वाभ्युपगमात् । यथा हि घटादिर्विद्यमानोऽपि सन् अगारे नोपलभ्यते । न च तावता असौ नास्तीति शक्यं प्रतिज्ञातुम् । आलोकोपायेन हि व्यज्यते । तथा इदं त्रैलोक्यं कारणे संसृष्टं विद्यमानमेव अनभिव्यक्तात्मकगुणस्वभावतया, पुरुषार्थनिमित्तेनाविष्क्रियते ॥

 तथैव च गतिसंस्कारक्षये स्थितिसंस्काराभिव्यक्तौ कारणं प्रति संसृज्यमानं व्यक्तेरपैति । यथा दीपालोकतिरोधाने विद्यमानोऽपि घटादिः सन्तमसावष्टम्भात् व्यक्त्तेरपसरति, तथा अत्रापि महदादयो धर्माः त्र्यध्वानः संसर्गविसर्गधर्माणः, न तु सत्त्वादयो धर्मिणः ॥

 ततस्त्रैलोक्यं महदादिस्तम्बपर्यवसानं सत्त्वादीनां धर्मभूतम[न]भिव्यक्तिधर्मकं सत् अत्यन्तनिरुद्धसूक्ष्मधर्मसमुदयात् व्यक्तिस्थूलधर्मरूपेण न गृह्मत इत्युच्यते-तदेतत् त्रैलोक्यं व्यक्तेरपैति इति । न पुनः धर्मिस्वरूपेणापायः । तथा च धर्मिरूपेण नित्यत्वादुच्यते-तदपेतमप्यस्ति इति ॥

 तदेवं व्यक्तिरूपश्च शक्तिरूपश्चैको धर्मी, व्यक्तिरूपेण च तस्यानित्यत्वं, शक्तिरूपेण च नित्यत्वमिति कथमेष विरोधः स्यात् । न हि देवदत्तश्चलनादिव्यापारेण सर्वदा गृह्यमाणश्चलनादिविरामे विरंस्यति । चलनमेव हि तिरोधीयते । तस्मादव्यक्तावस्थायामप्यस्ति धर्मी, व्यक्तावस्थायामुपलभ्यमानत्वात्, अन्धतमसावस्थितघटादिवत् ॥

 व्यक्तिरपि स्वकीयधर्मान्तरसमीक्षया धर्मिणी । सा च धर्मिरूपेण नित्या, धर्मरूपेणानित्या अभ्युपेयते । एवं विकारेषु धर्मधर्मिभेदोऽनवस्थित इत्यनवस्थाऽपि इष्यत एव ॥

 तत्र व्यक्तेरपैति इत्यनेन न विरुध्यते, नित्यत्वप्रतिषेधात् इत्ययं हेतुः । नापि अपतेमप्यस्ति इत्यनेन विरोधः । उभयोर्भिन्नविषयत्वात् । नापि विनाशप्रतिषेधात् इत्ययं अपेतमप्यस्ति इत्यनेन विरुध्यते । यथा बाह्यादपेतोऽप्यस्ति देवदत्त इति ॥

 अथ मन्वीथाः-अस्ति इति नित्यत्वमुच्यते, तेन नित्यत्वप्रतिषेधात् इत्ययं नित्यत्वेन विरोधमालिङ्गतीति । न- अनभ्युपगमात् । न हि व्यक्तेर्नित्यत्वमभ्युपगच्छेम, तस्या एव नित्यत्वं प्रतिषेधेम । शक्तिव्यक्तिधर्मकत्वाभ्युपगमादिति हि प्रतिपादितम् ॥