पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/299

पुटमेतत् सुपुष्टितम्
२५५
विभूतिपादः तृतीयः

[ भाष्यम् ]

वर्तमानं लक्षणं प्रतिपद्यत इति लक्षणतः परिणमते । घटो नवपुराणतां प्रतिक्षणमनुभवन् अवस्थापरिणामं प्रतिपद्यत इति । धर्मिणोऽपि धर्मान्तरं अवस्था, धर्मस्यापि लक्षणान्तरं अवस्था, इत्येक एव द्रव्यपरिणामो भेदेनोपदर्शित इति । एवं पदार्थान्तरेष्वपि योज्यमिति । त एते धर्मलक्षणावस्थापरिणामाः धर्मिस्वरूपमनतिक्रान्ताः इत्येक एव परिणामः सर्वानमून् विशेषान् अभिप्लव​ते । 1अवस्थितस्य द्रव्यस्य पूर्वधर्मनिवृत्तौ धर्मान्तरोत्पत्तिः परिणाम इति ॥ १३ ॥

 तत्र​一

[सूत्रम्]

  शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी ॥ १४ ॥

[विवरणम्]

 [घटाकारोऽनागतं लक्षणं हित्वा वर्तमानलक्षणं प्रतिपद्यत इति लक्षणतः परिणमते ॥ ]

 तथा घटो नवपुराणतां प्रतिक्षणमनुभवन् अवस्थापरिणामं प्रतिपद्यत इति । धर्मिणोऽपि मृदादेः धर्मान्तरं पिण्डादिकं अवस्था । धर्मी पिण्डकपालादिरूपावस्थामासीदति ।

 धर्मस्यापि घटादे: लक्षणान्तरं अतीतादिकं अवस्था । स एव हि घटो धर्मोऽतीतानागतवर्तमानावस्थामुपारोहति ॥

 तत एक एव परिणामो भेदेनोपदर्शित इति । एवं पदार्थान्तरेष्वि मृदः अन्येष्वपि शरीरेन्द्रियादिषु योज्यम् । त एते धर्मलक्षणावस्थापारीणामा धर्मिस्वरूपमनतिक्रान्ता इत्येक एव धर्मिणः परिणामः सर्वान् धर्मलक्षणावस्थापरिणामान् विशेषानभिप्ल​वते । कुतः ? येन अवस्थितस्य द्रव्यस्य पूर्वधर्मनिवृत्तौ धर्मान्तरोत्पत्तिः परिणाम इति धर्मी परिणाम एवेति शक्यं प्रतिपत्तुम् ॥ १३ ॥

 कः पुनरसौ धर्मी? यस्मिन् अवस्थिते धर्मान्तरविरामे धर्मान्तरोदयः परिणाम इति । तत्र शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी । शान्तोदितान् अव्यपदेश्यांश्च धर्माननुपतितुं शीलं यस्य सोऽन्वयी भिन्नेष्वभिन्नात्मा धर्मीति व्यपदिश्यते । धर्मः नाम योग्यतावच्छिन्ना शक्नोति रशनाकुण्डलादिभावमापत्तुमिति या सुवर्णस्य धर्मिणः कुण्डलत्वादिका शक्तिः स एव धर्मः ॥


1. अथ कोऽयं परिणामः? अवस्थितस्य