पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/301

पुटमेतत् सुपुष्टितम्
२५७
विभूतिपादः तृतीयः



[ भाष्यम् ]

 यथा अनागतवर्तमानयोः पूर्वपश्चिमता, नैवं अतीतस्य । तस्मात् नातीतस्यास्ति समनन्तरः । तदनागत एव समनन्तरो भवति वर्तमानस्य इति ॥

 अथ अव्यपदेश्या: के ?

 सर्वं सर्वात्मकम् इति । 1तत्रोक्तम्---जलभूम्योः पारिणामिकं रसादिवैश्वरूप्यं स्थावरेषु दृष्टम् । तथा स्थावराणां जङ्गमेषु, जङ्गमानां स्थावरेषु इत्येवं जात्यनुच्छेदेन सर्वं सर्वात्मकम् इति ॥

[ विवरणम् ]

पश्चिमोऽनन्तरः । इतरश्च तदपेक्षया पूर्वः । तदिह पश्चिमाभावात् एष स्वयमपि पूर्वो न भवतीति पूर्वपश्चिमाभावादतीतस्यानन्तरा न सन्ति । यथा अनागतवर्तमानयोः पूर्वपश्चिमता नैवमतीतस्य । तस्मात् न[नाती]तस्यास्ति समनन्तरः ॥  यस्त्वयं पाठः । तदनागत एव समनन्तरीभवति वर्तमानस्य इति, न तस्य प्रकृतेन सम्बन्धः । तस्मात् तदनागत एव समनन्तरो भवत्यतीतस्य इत्ययमेव पाठः । अर्थोपपत्तेः । कथम् ? यदा व्युत्थानसंस्कारो निरोधसंस्कारेण आद्योऽभिभूयते, तदा वर्तमानमध्वानं हित्वा व्युत्थानसंस्कारोऽतीतमध्वानमुपसम्पद्य पुनरनागतः सन् वर्तमानीभवतीत्यसमनन्तरोऽप्यनागत एव समनन्तरीभवत्यतीतस्येप्युच्यते । अतीतानागतयोर्लक्षणयोर्धर्माणां धर्मिस्वरूपमात्राविशेषात् ॥

 अथ अव्यपदेश्या: के? तदव्यपदेश्याभिप्रदर्शनार्थमाह---सर्वं सर्वात्मकं इति । कथम् ? तत्रोक्तम्---जलभूम्योः पारिणामिकं रसादिवैश्वरूप्यं स्थावरेषु दृष्टम् । यथा रस एक एव इक्षुश्रृङ्गिबेरकादिषु मधुरकटुकत्वादि वैश्वरूप्यं प्रतिपद्यते । तथा, रूपस्य शुक्लकृष्णत्वादिविचित्ररूपत्वम् । एवं गन्धादिष्वपि । तथा स्थावराणां जङ्गमेषु रसादिवैश्वरूप्यम् । स्थावराणामुपयुक्तानां जङ्गमेषु रसलोहितादिविश्वभेदः । तथा जङ्गमानां स्थावरेषु उपयुक्तानाम् वृक्षायुर्वेदप्रसिद्धं रसादिवैश्वरूप्यम् ॥

 एवं स्थावराणां स्थावेरेषु, जङ्गमानां च जङ्गमेषु, इत्येवं जात्य​नुच्छेदेन सत्त्वाद्यविनाशेन सर्वं सर्वात्मकम् । अङ्गुलिशिखरे लोकत्रयमप्यस्ति | तथा च​ 'अङ्गुष्ठादसृजत् ब्रह्मा रोमकूपेभ्यः' इत्यादिश्रुतिस्मृतिशतप्रस्थानम् ॥


1. यत्रोक्तम्,

33