पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/309

पुटमेतत् सुपुष्टितम्
२६५
विभूतिपाद: तृतीयः

  अपि च, वाक्श्रोत्रव्यापार एव सत्यर्थप्रतिपत्तिरिति तस्याव्यभिचारात् तद्भावभावित्वे शब्दत्वं प्राप्नोति । तस्मादन्त्यो वर्णो न वाचकः, वर्णत्वात् आद्यवर्णवत् । तथा, तत्स्मृतिसंस्कारा न वाचकाः, स्मृतिसंस्कारत्वात्, आद्यवर्णस्मृतिसंस्कारवत् ॥
 यदि चान्त्यो वर्णः पूर्ववर्णजनितसंस्कारसहितः वाचक इत्युच्यते-- नैतदेवम् । कस्मात् ? अन्त्यवर्णोच्चारणमात्रादेवार्थप्रत्ययप्रसङ्गात् । कथम् ? अतीतदिवसोच्चरितगकारादिवर्णाहितसंस्कारो हि समस्तः श्रोता । तत्रान्त्यवर्णोच्चारणमात्रादर्थ: प्रतीयेत । अथापि नियमार्थमाद्यवर्णोच्चारणमिति चेत् न-पूर्ववर्णानां पश्चिमवर्णेनातुल्यकालत्वात् साहायकाभावे नियमानुपपत्तिः ॥
  तवापि वर्णानां पदव्यञ्जकत्वे नियमार्थ पूर्ववर्णा उच्चारयितव्या इति । दोष एवेति, पदव्यञ्जकत्वकल्पनातो वर्णानामेव वाचकत्वं युक्तमिति चेत्, न-वर्णानां बुद्धौ स्वकीयसंस्काराधानमात्राभ्युपगमात् । उच्चरितप्रध्वंसमानवर्णसंस्कारपरंपरोपचितायां हि बुद्धौ पदं निर्भासते । एतदेव हि वर्णानां पदव्यञ्जकत्वम् । न पदं प्रति दीपवत् साक्षात् प्रवर्तते ॥
 न बुद्धौ धर्मिद्वारेण संस्काराणामेकाश्रयावस्थानादव्योन्योपकार्योपकारकभावः समीचीनतरः । इष्टानिष्टविषयोपलब्धिस्मृतीच्छाद्वेषादिवत् । न कदाचिदन्येन वर्णेन पूर्ववर्णानां तदीयस्मृतिसंस्काराणां वा सम्बन्ध उपकल्पते ॥   अथ ममापि नियतक्रमवर्णसम्पादितसंस्कारपरम्परोपचितबुद्ध्युत्पादकत्वेनैव वर्णानां वाचकत्वमिति चेत्-न-अभ्युपेतपरिवर्जनात् । यदि तावद्वर्णानेकसंस्कारविशिष्टा बुद्धिः अर्थविषया वा पदविषया वा ? यद्यर्थविषया, सैव शब्दः प्राप्नोति । अर्थप्रत्यायकत्वात् । अथ पदविषया, तथाऽपि पदादर्थप्रतिपत्तिरिति बाध्येत ॥
  तस्मादेकबुद्धिविषयो वर्णव्यतिरिक्तः शब्दोऽभ्युपगन्तव्यः । तेन पूर्ववर्णजनितसंस्कारसहितोऽन्त्यो वर्णः, तत्स्मृतिः, संस्कारो वा, न वाचकः । संस्कारसाहायकापेक्षत्वात्, बुद्धिवत् ।
 एवं गते कथं वर्णानामर्थविषयः पदविषयो वा व्यापारो नास्तीत्याह-वर्णाः एकसमयासम्भवित्वात् । एककालासम्भवित्वं च वाचः क्रमवर्तित्वात् । अतः परस्परनिरनुग्रहात्मानः कस्यचिदभिसम्बन्धस्याभावादितेरतरनिरुपकाराः । ते पदमनुपसस्पृश्यानुपस्थाप्य कञ्चन पदे व्यापारमविधाय आविर्भुताश्च तिरोभूताश्च व्यस्ता वा समस्ता वा न पदात्मानमपाङ्गविक्षेपेणापि परामृशन्ति । प्रत्येकमपदस्वरूपाः युगपदनवस्थानात् समुदायात्मनाऽप्यपदस्वरूपा एव । किमङ्ग पुनः प्रत्येकमनर्थकानामवस्थितानामिति ।