पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/310

पुटमेतत् सुपुष्टितम्
२६६
पातञ्जलयोगसूत्रभाष्यविवरणे

[ भाष्यम् ]

 वर्णः पुनः एकैकः सर्वाभिधानशक्तिप्रचितः सहकारिवर्णान्तरप्रतियोगित्वात् वैश्चरूप्यमिवापन्नः उत्तरश्च पूर्वेण पूर्वश्चोत्तरेण विशेषेऽवस्थापितः, इत्येवं बहवो वर्णाः क्रमानुरोधिनोऽर्थसङ्केतेन अवच्छिन्नाः इयन्त एते सर्वाभिधानशक्तिपरिच्युताः गकारौकारविसर्जनीयाः सास्नादिमन्तमर्थं द्योतयन्ति इति ॥
 तदेषाम् अर्थसङ्केतेन अवच्छिन्नानाम् *अनुगृहीतध्वनिक्रमाणां य एको बुद्धिनिर्भासः तत् पदं वाचकं वाच्यस्य सङ्केत्यते । तदेकं पदम् एकबुद्धिविषयम् एकप्रयत्नाक्षिप्तं अविभागम् अक्रमम् अवर्णात्मकम् अन्त्यवर्णप्रत्ययव्यापारोपस्थापितं परत्र प्रतिपिपादयिषया वर्णैरेव अभिधीयमानैः श्रूयमाणैश्च श्रोतृभिः अनादिवाग्व्यवहारवासनाऽनुविद्धया लोकबुद्धया सिद्धवत् सम्प्रतिपत्या प्रतीयते ॥

[ विवरणम् ]

 वर्णः पुनरेकैकः सर्वाभिधानशक्तिप्रचितः । अभिधीयते यैः तान्यभिधानानि पदानि, तेषां सर्वेषामभिधानानां पदानामभिव्यञ्चिकाभिः शक्तिभिः प्रचितः, अराणामेकैक इव नाभौ। तद्यथा--गकारः गोवर्गाग्निगगनादिसर्वपदाभिद्योतनसामर्थ्यप्रचितः ॥
 सहकारिवर्णान्तरप्रतियोगित्वात् । यथा गौरिति गकारैकारविसर्जनीयसहकारिसव्यपेक्षः अग्निरितीकारप्रतियोगी । तस्मादनेकवर्णान्तरोपाधिसम्बन्धात् प्रतिपदं वैश्वरूप्यमिवापन्नः । उत्तरश्च वर्णः पूर्वेण विशेषे पदविशेषप्रद्योतने अवस्थापितः । पूर्वश्चोत्तरेण, मध्यमोऽपि पूर्वोत्तराभ्याम् ॥
 एवं बहवो वर्णाः क्रमानुरोधिनः विशिष्टक्रमं, आनुपूर्वीम् अनुरुध्यमानाः॥ अर्थसङ्केतेन अमी अस्मिन्नर्थे एतत्क्रमावलम्बिनः इयन्त इति सङ्केतः समय’, तेन अर्थसङ्केतेन अवच्छिन्नाः
 वर्णसङ्केतद्वारेण पदं सङ्केत्यते । वर्णाव्यभिचरितचारित्रम् असाधारणवर्णक्रमापेक्षितसङ्केतसमयं हि पदम् । वर्णसङ्केत एव तस्य सङ्केतः । इयन्त एते वर्णाः सर्वाभिधानशक्तिपरिच्युता: विशिष्टसास्नादिमदर्थप्रतिपादकासाधारण
1. क: पदात्म स-       4. अभागं
2. साभिधानशक्तिपरिवृताः     5. अवर्ण बौद्धम् अन्त्य
3. उपसंहृतध्वनि