पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/314

पुटमेतत् सुपुष्टितम्
२७०
पातञ्जलयोगसूत्रभाष्यविवरणे

 तस्मादेवमयं श्लोकः पठितव्यः
 वर्णा वा ध्वनयो वाऽपि भिन्नमेवार्थमात्मनः ॥
 व्यञ्जन्ति व्यञ्जकत्वेन यथा दीपप्रभादयः ॥

 तथा, घटादीनामप्यर्थोन्तरप्रत्युपस्थानमात्रत्वमभ्युपगम्यत एव । घटादयो हि दर्शनमात्रेण पचनाहरणधारणादियोग्यताबुद्धिम् अन्यद्वा किंचित् उपस्थापयन्त्येव । तथा वर्णानां पारम्पर्येण आत्मव्यतिरिक्तपदप्रत्युपस्थापकत्व सत्त्वात् घटादिवदिष्यत एवेति तुल्यमेतदपि |

 सत्त्वाद्घटादिवच्चेति साधनानि यथारुचि ।
 लौकिकव्यतिरेकेण कल्पितेऽर्थे भवन्ति हि ॥

 सर्वथा जातिर्वा बुद्धिर्वी भवतु, यतो वा कुतश्चित् उचारितप्रध्वस्तवर्णानसंभविनो वर्णव्यतिरिक्तात् अर्थप्रतिपत्तिः, स स्फोटः । स च अवश्यं वर्णासंभावित्वात् कार्येस्याभ्युपगमनीयः । तथा च-
 ‘नार्थस्य वाचकः स्फोटो वर्णेभ्यो व्यतिरेकतः'

 इति ब्रुवतोऽभ्युपगमविरोधः स्यात् । अपि च, वर्णेभ्यो व्यतिरेकतः इत्यन्यतरासिद्धः । स्वतो व्यतिरेकेस्यसिद्धत्वात् ॥

 किं च, नामाख्यातोपसर्गानिपातपदजातिचतुष्टयमभ्युपगच्छता जातिव्यञ्जकं वर्णव्यतिरिक्तम् अन्यदभ्युपगन्तव्यम् । न वर्णाः पदजातिमभिव्यञ्जितुमुत्सहन्ते । वर्णा हि वर्णजातिमभिव्यञ्जयन्ति । न चावयवेषु भिन्नकालजन्मविनाशेष्ववयविजातिव्यञ्जनमुपपद्यते । व्यवस्थितेष्वपि नाम तावदवयवषु न पाणिपादादयः शरीरदृते शरीरत्वमभिव्यञ्जयन्ति । किं पुनरनवस्थितेषु ।

 किं च, अश्वः अयातमयातमक्षः भवति, तेन मम वायुर्वायुः, इत्यादिषु तुल्यस्वरूपेषु नामत्वाख्यातत्वे परस्परविरुद्धजातीये नैक एव वर्णोऽभिव्यनक्ति ॥
 यदि वा अश्वः इति नामज्जात्या अभिव्यञ्जकाः अकारशकारवकाराकारविसर्जनीयाः आख्यातजाल्यभिव्यञ्जकेभ्यो भिन्ना भवेयुः, तदा उपपद्यते भिन्नानां भिन्नजात्यभिव्यञ्जकत्वम् । तदेकत्वे नोपपद्यते ॥

 यद्यपि अर्थप्रकरणशब्दान्तरसन्निधानादिभिः इदं नाम इदमाख्यातं इति परिकल्प्येत, तथाऽपि नामाख्यातजात्यभिव्यक्तिम् अर्थप्रकरणादिभिरेक एव वर्णो न शक्नोति कर्तुम् । न हि ब्राह्मण एव ब्राह्मणत्वं क्षत्रियत्वं चाभिव्यनक्ति ॥