पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/315

पुटमेतत् सुपुष्टितम्
२७१
विभूतीपादः तृतीयः

 तस्मात् भिन्ना अकाराः शकारा वकारादयश्च बहव एषितव्याः । एवं गोशब्दादयोऽपि भिन्ना एव । तथा गोशब्दत्वमश्वशब्दत्वं च सिद्धम्। एवं मत्वमात्वमित्वमीत्वं च सिद्धम् । एवं च सति अकारादयो वर्णा अत्वादीन्येव सामान्यान्यभिव्यञ्जयन्ति । नाश्चादीन् नामाख्यातजातिभेदानिति ।

 तस्मात् वर्णव्यतिरिक्तं पदत्वसामान्याभिव्यञ्जकं पदमभ्युपगन्तव्यम् । एवं च सत्येष श्लोक एवं पठितव्य:-
 प्रतिषेधेतु यः स्फोटं वर्णधीसमनन्तरम् ।
  दृष्टबाधो भवेत्तस्य शशिचन्द्रनिषेधवत् ॥
  वर्णोत्थाऽवर्णधीरेषा तज्ज्ञानानन्तरोद्भवा ।। इति ॥
 करणबुद्धिव्यवहितत्वादनन्तरोद्भवत्वमसिद्धम् । पारम्पर्येण चेत्। सिद्धसाध्यता । धूमस्यापि न वह्निधियं प्रति कारणत्वम् । धूमधियः कारणत्वात् । धूमादीनां पारम्पर्यवत् वर्णादीनामपि पारम्पर्येणोपकारकत्वमिष्यत इत्युक्तम् ॥

तस्मादयमपि श्लोक एवं पठितव्यः---
 वर्णोत्था नार्थधीरेषा तज्ज्ञानानन्तरोद्भवा ।
  येदृशी सा तदुत्था न धूमोदरिव वह्निधीः ॥
 न च दीपवत् सन्निपत्य गकारौकारौं सास्नादिमदर्थव्यञ्जकौ। अर्थव्यक्तिकालानवस्थानादनयेार्दृष्टो व्यभिचार: विसर्जनीयविषयेऽपि समुन्नीयते निरवस्थानादि । वर्णा नार्थव्यक्तिसमानकालावस्थायिनः, प्रदीपस्तु व्यङ्गयकालेन तुल्यकालावस्थानः कारणत्वं प्रतिलभते ॥

तस्मादयमप्येवं श्लोकः पठितव्यः
 दीपवद्वा गकारादिर्गवादीनामवाचक:
  ध्रुवं प्रतीयमानत्वात् तत्पूर्वं प्रतिपादनात् ॥
  प्रमाणं चात्र भवति-अर्थस्य न वाचकाः, नाप्यर्थं प्रति प्रमाणं वर्णाः, साक्षात् सङ्केतापेक्षत्वात्, अङ्कप्रतिमादिवत् । यथा शताद्यङ्का विष्णुप्रतिमाश्च सङ्केतापेक्षा आगममेवावद्योतयन्ति । न विष्णुशताद्यर्थं प्रति प्रमाणत्वमुपयान्ति ॥

 यत्तु नापेक्षते सङ्केतं, तत् प्रमाणम्, यथा वाक्यं, दीपादिजाल्यन्तरं च । न तथा वर्ण इति प्रतिमावदेषां अप्रामाण्यमापातितम् । तथा, वर्णा अर्थप्रतिपादकमात्मव्यतिरिक्तमभिव्यञ्जयन्ति , साक्षात् सङ्केतापेक्षत्वात्, अङ्कविष्णुप्रतिमादिवत्। स्फोटः तत्सङ्केतं न साक्षादपेक्षते इत्यवादिष्म ॥