पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/316

पुटमेतत् सुपुष्टितम्
२७२
पातञ्जलयोगसूत्रभाष्यविवरणे

[ भाष्यम् ]


 तस्य सङ्केतबुद्वितः प्रविभागः, एतावतामेवंजातीयकोऽनुसंहारः एतस्यार्थस्य वाचक इति । सङ्केतस्तु पदपदार्थयोरितरेतराध्यासरूपः *स्मृत्यात्मा योऽयं शब्दः सोऽयमर्थः, योऽयमर्थः सोऽयं शब्दः, यश्च प्रत्ययः सोऽर्थः शब्दश्चेति ॥

 एवमितरेतराध्यासरूपः सङ्केतो भवतीति । एवमेते शब्दार्थप्रत्ययाः इतरतराध्यासात् सङ्कीर्णाः, गौरिति शब्दो, गौरित्यर्थो, गौरिति ज्ञानम् । य एषां प्रविभागज्ञः, स सर्ववित् ॥

[ विवरणम् ]

  तस्मादेवम् अनेकयुक्तिपरिवारप्रत्युपानीतबलाधानं कः स्फोटम् अपाकर्तुं शक्नोति ।

 तदेवं गते भाष्यमिदानीमुच्यते-तस्य पदस्य सङ्केतबुद्वितः प्रविभागः । शब्दार्थज्ञानव्यतिभिन्नरूपा हि सङ्केतबुद्धिः । तस्याः सकाशात् पदस्य प्रविभागः करणीय: ।}

 सङ्केतरूपं दर्शयति-एतावतां वर्णानाम् एवंजातीयकेऽनुसंहार एतस्यार्थस्य वाचकः इति । यथा अयमङ्कः शतं सहस्रं, विष्णुरेषा प्रतिमा इति च ।}

{{gap}}संकेतस्तु पदपदार्थयोरितरेतराध्यासरूपः स्मृत्यात्मा, न प्रमाणभूतः । यथा विष्णुरेषा प्रतिमा, एष एव चतुर्भुज इति, तथा प्रत्यय उभयमिदं उभयं नु प्रत्यय इत्यन्योन्याध्यस्तरूपा विष्णुप्रतिमाप्रत्ययाः ।}

 तथा योऽयं शब्दः सोऽयमर्थः, योऽयमर्थः स शब्दः, यश्च प्रत्ययः सोऽर्थः शब्दश्चेति, एवमितरेतराध्यासरूपः संकेतो भवति । एवमेते शब्दार्थप्रत्यया इतरेतराध्यासात् संकीर्णाः । तद्यथा गौरिति शब्दो, गौरित्यर्थो, गौरीति ज्ञानम् इति ॥}

{{gap}}य एषां शब्दार्थप्रत्ययानां प्रविभागज्ञः, स सर्वज्ञः । कस्मात् ? अशक्यत्वात् प्रविभागज्ञानस्य । न ह्यसर्वज्ञः शक्नोति प्रविभागेन तानवगन्तुम् ॥}

1. स्मृत्यात्मक:}