पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/317

पुटमेतत् सुपुष्टितम्
२७३
विभूतिपादः तृतीयः

[ भाष्यम् ]

 सर्वपदेषु चास्ति वाक्यशक्तिः, वृक्ष इत्युक्ते अस्तीति गम्यते ।
न सत्तां पदार्थो व्यभिचरतीति । तथा न ह्यसाधना क्रिया अस्ति इति ।

[ विवरणम् ]

{{gap}}सर्वपदेषु चास्ति वाक्यशक्तिः । वृक्ष इत्युक्ते अस्तीति गम्यते । न सत्तां पदार्थो व्यभिचरतीति ॥
 किमर्थमेतदुच्यते ? इह सर्वभूतरुतज्ञानोपायः प्रतिपिपादयिषितः । सर्वभूतरुतं च वाक्यार्थविषयमेव, न पदार्थविषयम् । पदानां केवलानां वर्णानामिवानर्थकत्वात् , संव्यवहाराभावाच्च । यथैव वर्णानां वर्णान्तराभिसमीक्षया पदावद्योतनप्रयोजनवत्त्वम्, एवं पदानामपि पदान्तरापेक्षया वाक्योपस्थापनोपायत्वम् । एवं सति वाक्यस्यैव प्रामाण्यं, केवलपदप्रयोगेऽर्थाप्रतीतेः ॥

 किं च, केवलं पदमप्रमाणं, तावता निर्णयाभावात्, एकैकवर्णवत् । नापि पदं वाचकम्, सङ्केतार्थापेक्षत्वात्, शताद्यङ्कवत् । नामाख्याते केवले न वाचके, केवलाप्रयोगात् , उपसर्गवत् । यत्रापि केवलं पदं प्रयुयुक्षितं तत्राप्यवश्यम् , अस्ति तिष्ठति देवदत्त इत्यादिपदं बुद्धौ विपरिवर्तत इति न केवलाप्रयोगसिद्धिः ।

 प्रलम्बते, पर्यागच्छति, अभ्यागच्छति, इत्यादिषु उपसर्गकर्मप्रवचनीयानां न कश्चिदर्थः । तथा अभिमनायते, सुमनायते, दुर्मनायते, इत्यादिषु च उपसर्गाणां द्योतकत्वं सिद्धम् । तथा, प्रतिष्ठते, अधीत इत्यादिष्वप्युपसर्गाणां द्योतकत्वमेव न वाचकत्वमिति । तथा न ह्यसाधना क्रिया अस्ति ! केवलकर्मप्रयोगे किमपि साधनं द्रव्यं गुणो वावगम्यते ॥
 किं च, प्रकृतिप्रत्ययानामनवस्थितावधिकत्वात् व्यभिचारादवाचकत्वम् । तद्यथा-दरिद्रातिः केषाञ्चित् द्रव्यमात्र एव पठ्यते । दरिद्रशब्दस्तु निपातोपसर्गस्थानीयः पुनरागच्छति, द्रति, निद्राति, दरिद्राति, इति । तत्र का प्रकृतिरिति वक्तव्यम् । किं (द्राक्त्विदं) द्रा, इति, किं वा दरिद्रेति । केषाञ्चित्तु दरिद्रेत्येतावत् पठ्यते । तथा द्राशब्दोऽपि पृथगाम्नायते ॥
 एवमस्ति सकारमात्रं पठन्ति । वीति च प्रत्यये कारमागमं कुर्वन्ति । केचित्तु सह कारेण पठित्वा (अविति) वीति च प्रत्यये लोपं कारस्य कुर्वन्ति । तत्र का प्रकृतिरिति वक्तव्यम् । न निर्ज्ञायते । प्रकृत्यवधौ प्रत्ययावधौ वा प्रकृतिप्रत्ययार्थौ शक्यौ विवेक्तुम् ॥
 35