पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/324

पुटमेतत् सुपुष्टितम्
२८०
पातञ्जलयोगसूत्रभाष्यविवरणे


 

[भाष्यम्]

  भगवन्तमावट्यं जैगीषव्य उवाच-दशसु महासर्गेषु भव्यत्वात् अनभिभूतबुद्धिसत्वेन मया नरकतिर्यग्गमनं अनुपश्यता देवमनुष्येषु पुनः पुनः उत्पद्यमानेन यत्किञ्चिदनुभूतं तत् सर्वं दुःखमेव प्रत्यवैमि ॥  भगवान् आवट्य उवाच-यदिदमायुष्मतः प्रधानवशित्वम् अनुत्तमं च सन्तोषसुखं किमिदमपि दुःखपक्षे निक्षिप्तमिति ॥

 भगवान् जैगीषव्य उवाच-विषयसुखापेक्षयैवेदमनुत्तमं सन्तेषसुखं [प्रधानवशित्वसुखं च] उक्तम् । कैवल्यसुखापेक्षया दुःखमेव । बुद्धिसत्त्वस्यायं धर्मः त्रिगुणः । त्रिगुणश्च प्रत्ययो हेयपक्षे न्यस्त इति । दुःखरूपः तृष्णातन्तुः

[सूत्रम्]

 प्रत्ययस्य परचित्तज्ञानम् ॥ १९ ॥

 

[भाष्यम्]

 प्रत्यये संयमात् प्रत्ययस्य 3साक्षात्करणम् । ततः परचित्तज्ञानम् ॥ १९ ॥

[विवरणम्]

 भगवानावट्य उवाच-यदिदमायुष्मतः प्रधानवशित्वमनुत्तमं च सन्तोषसुखं [ किमिदमपि दु:खपक्षे निक्षिप्तमिति । भगवान् जैगीषव्य उवाच--विषयसुखापेक्षयैवेमनुत्तमं सन्तोषसुखं [प्रधानवशित्वसुखं च] उक्तम् । कैवल्यसुखापेक्षया दुःखमेव । बुद्धिसत्त्वस्यायं धर्मः त्रिगुणः ।] त्रिगुणश्च प्रत्ययो हेयपक्षे न्यस्त इति । किमपेक्षया पुनरेतत् द्वयं सुखं भवतीत्याह-दुःखरूपस्तृष्णातन्तुः । तृष्णासन्तानदुःखोपशमरूपं तु प्रसन्नमनाबाधं सर्वानुकूलं सुखमिदमुक्तं सन्तोषसुखं प्रधानजयसुखं च ॥ १८ ॥

 प्रत्ययस्य परचित्तज्ञानम् । परप्रत्यये संयमात् परप्रत्ययस्य साक्षात्करणम् । तत्साक्षात्करणे तत्संबन्धिनः परचित्तस्य ज्ञानं भवति । १९ ॥

1. तृष्णादुःखसन्तापापगमातु

2. अबाधं

3. साक्षात्करणात् ततः