पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/327

एतत् पृष्ठम् परिष्कृतम् अस्ति
२८३
विभूतिपादः तृतीयः


[भाष्यम]

सोपक्रमम् । यथा वा स एवाग्निस्तृणराशौ क्रमेण'१ न्यस्तश्चिरेण दहेत् तथा निरुपक्रमम् । तदैकभविकमायुष्करं कर्म द्विविधम्-सोपक्रमं निरुपक्रमं च । तत्संयमादपरान्तस्य प्रायणस्य ज्ञानम् ।

 अरिष्टेभ्यो वेति । त्रिविधमरिष्टमाध्यात्मिकमाधिभौतिकमाधिदैविकं चेति । तत्राऽऽध्यात्मिकं, घोषं स्वदेहे पिहितकर्णो न शृणोति । ज्योतिर्वा नेत्रेऽवष्टब्धे न पश्यति । तथाऽऽधिभौतिकं, यमपुरुषान् पश्यति, पितॄनतीतानागतानकस्मात् वेत्ति'२ । तथाऽऽधिदैविकं,३* अकस्मात् ४‘सिद्धादीन् पश्यति । विपरीतं वा सर्वामेति । अनेन वा जानात्यपरान्तमुपस्थितमिति ॥ २२ ॥

[सूत्रम्]

 मैत्र्यादिषु बलानि ॥ २३ ॥

[विवरणम्]

 फलकम्:Bold'''

 अरिष्टेभ्यो वा प्रायणज्ञानम् ! त्रिविधमरिष्टमाध्यात्मिकमाधिभौतिकमाधिदैविकं च । तत्राध्यात्मिकस्योदाहरणम्- घोषं स्वदेहे पिहितकर्णो न श्रृणोति । ज्योतिर्वा नेत्रेऽवष्टब्धे न पश्यति ।  तथा आधिभौतिकं-यमपुरुषान् पश्यति । पितृनतीतानागतानकस्माद्वेत्ति ! आधिदैविकम्--अकस्मादेव सिद्धादीन् पश्यति । विपरीतं वा सर्वं पश्यति करोति च । तत्रारिष्टमिति लौकिकी वाचोयुक्तिः । एवं ह्माह--विपरीतदर्शनं ममासीदरिष्टांमति । २ ॥

१ क्रमशोऽवयवेषु

२ पश्यति

३ स्वर्गं अ

४ सिद्धान् वा