पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/333

एतत् पृष्ठम् परिष्कृतम् अस्ति
२९०
 
पातञ्जलयोगसूत्रभाष्यविवरणे


[भाष्यम्]

 यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म, तत्र विज्ञानं, तस्मिन् संयमाच्चित्तसंवित् ॥ ३४ ॥

[सूत्रम्]

 सत्त्वपुरुषयोरत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः परार्थात्स्वार्थसंयमात्पुरुषज्ञानम् ॥ ३५ ॥

[भाष्यम्]

 बुद्धिसत्त्वं प्रख्याशीलं समानसत्त्वोपनिबन्धने रजस्तमसी वशीकृत्य सत्त्वपुरुषान्यताप्रत्ययेन परिणतम् । तस्माच्च सत्त्वात् परिणामिनोडत्यन्तविधर्मा विशुध्धोडन्यश्चि१न्मात्ररूपः। पुरूषः।

|

[विवरणम्]

 हृदये चित्तसंवित् । यदिदमस्मिन् ब्रह्मपुरे शरीरे दहरम् अल्पं पुण्डरीकं पुण्डरीकाकारो मांसपिण्डोऽधोमुखः, वेश्मवदनेकनाडीसुषिरयोगात् वेश्म । तत्र विज्ञानं चित, तस्मिन् उरस्सरोविलग्ननाले प्राणवेश्मनि पुण्डरीके संयमाच्चित्ते सत्त्वे संवित् भवति ॥ ३४ ॥

 सत्त्वपुरुषयोरत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः परार्थात् स्वार्थसंयमात् पुरुषज्ञानम् । सत्त्वं चित्तं, पुरुषो भोक्ता, तयओः अत्यन्तासङ्कीर्णयोः अंत्यन्तविलक्षणयोरतीव पृथग्भूतयोः वृत्तिसारूप्यं प्रत्ययाविशेषः, स भोगः पुरुषस्य । परार्थात् सत्त्वात् पुरुषप्रत्ययेन सङ्कीर्णाभासात् विविध्य स्वार्थे चितिमात्रस्वरूपे संयमात् पुरुषज्ञानं भवति।। कीदृशं तत् परार्थं चित्तसत्त्वम् ? यतो विविध्य स्वार्थे पुरुषे संयमः

क्रियत इति । बुद्धिसत्त्वं प्रख्याशीलं समानं सत्वं वस्तुकार्यं पुरुषार्थकर्तव्यतया समवस्थानम् उपनिबन्धनं ययोस्ते समानसत्त्वोपनिबन्धने रजस्तमसी वशीकृत्य न्यग्भावमापाद्य सत्त्वपुरुषान्यताप्रत्ययेन योगिनः परिणतम् ॥

 तस्माच्च सत्त्वात् परिणामिनः त्रिगुणादनित्यादशुद्धात् परार्थादचेतनात् अत्यन्तविधर्मा विशुद्धोऽन्यः अपरिणामी स्वार्थो नित्यः चिन्मात्ररूपः पुरुषः॥ 1. तिम ।