[भाष्यम्]
तयोरत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः, पुरुषस्य दर्शितविषयत्वात् । स भोगप्रत्ययः सत्त्वस्य परार्थत्वाद्दृश्यः ॥
यस्तु तस्माद्विशिष्टश्चितिमात्ररूपोऽन्यः पौरुषेयः प्रत्ययः, तत्र सेयमात्पुरुषविषया प्रज्ञा जायते । न च पुरुषप्रत्ययेन बुद्धिसत्त्वात्मना पुरुषो दृश्यते । पुरुष एव तं प्रत्ययं १'स्वालम्बनं पश्यति । तथा ह्युक्तम्- विज्ञातारमरे केन विजानीयात् ” [बृह० २ । ४ ।। १४] इति ॥ ३५॥
[विवरणम्]
तयोरत्यन्तासङ्कीर्णयोः प्रत्ययाविशेषो भोगः पुरुषस्य दर्शितविषयत्वात् । स भोगप्रत्ययः । नापरिणामित्वे सति दर्शितविषयत्वादन्यो भोगः सम्भवति । सत्त्वस्य परार्थत्वात् अविशिष्ठो भोगप्रत्ययो दृश्यः पुरुषेण ।
यस्तु तस्मात् गौणप्रत्ययात् प्रत्ययिनश्च विशिष्टश्चितिमात्ररूपोऽन्यः पौरुषेयः प्रत्ययः, स्वार्थः पुरुष एव परिणामानुपपत्तेः प्रत्ययः । तत्र संयमात् पुरुषविषया प्रज्ञा जायते ॥
ननु च यदि पुरुषः प्रत्ययस्य विषयीक्रियते, तेन चेत् पुरुषो गृह्यते, परार्थः पुरुषः प्राप्नोति । नैष दोषः । न च पुरुषप्रत्ययेन पुरुषविषयेण प्रत्ययेन बुद्धिसत्त्वात्मना बुद्धिसत्त्वधर्मेण पुरुषो दृश्यते बुद्धेरचेतनत्वात् ॥
पुरुष एव तं प्रत्ययं स्वालम्बनं पुरुषाभासं पश्यति पुरुषाभासत्वमेव प्रत्ययस्य पुरुषालम्बनत्वम् । न प्रत्ययस्य पुरुषालम्बनत्वम् । यथा मुखसन्निधौ दर्पणो मुखाकारेण परिणमते, तथा चित्तं पुरुषाकारेण परिणतं पुरुषाभासं पुरुषेण गृह्यते ॥
तथा चोक्त्तम्-‘विज्ञातारमरे केन विजानीयात्' इति। न कस्यचित् पुरुषः कर्मतां प्रतिपद्यत इत्यर्थः ॥
ननु चक्षुरादर्शतलप्रतिहतं प्रतिनिवृत्य यथा मुखस्य ग्राहकं, एवं पुरुषोऽपि चित्तसत्त्वप्रतिहतः प्रतिनिवृत्य स्वात्मानं गृह्णीयात्-न-परिणामानुपपत्तेः पुरुषस्य । न ह्यपरिणामिनश्चित्तं प्रति प्रवृत्तिः प्रतिनिवृत्तिर्वा साधिमानमुपाश्नुवीत ।
न चापि चक्षुः प्रतिनिवृत्य मुखं ग्राहयति । मुखस्य दर्पणमण्डलाधिकरणत्वेन अनुभूयमानत्वात् । न हि स्वमुखं दर्पणाधिकरणस्थम् । किं च, 1. स्वात्माबल