पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/335

एतत् पृष्ठम् परिष्कृतम् अस्ति

पातञलयोगौत्रभष्यविवरने



{{c [ सूत्रम् ]}}

ततः प्रातिभश्रावणवेदनादर्शास्वाद्वार्ता जायन्ते ॥ ३६ ॥
          [ भाष्यम् ]

प्रातिभात्सूक्ष्मव्यवहितविप्रकृष्टातीतानागतज्ञानम् । श्रावणाद्दिव्यशब्दश्रवणम् । वेदनाद्दिव्यस्पर्शाधिगभः । आदर्शाद्देिव्यरूपसंवित् । आस्वादाद्दिव्यरससंवेित् । वार्तातः संव्यवहारतत्त्वरूपं यथावत् अधिगच्छति (दिव्यगन्धविज्ञानमित्येतानि नित्यं जायन्ते) ॥ ३६ ॥

            (सूत्रम् )

ते समाधावुपसर्गा व्युत्थाने सिद्धयः ॥ ३७ ॥

            [ भाष्यम्] 
ते प्रातिभादयः समाहितचित्तस्योत्पद्यमाना उपसर्गाः, तद्दर्शन-

प्रत्यनीकत्वात् । व्युत्थितचित्तस्योत्पद्यमानाः सिद्धयः ॥ ३७ ॥

             [ सूत्रम्]
'बन्धकारणशैथिल्यात्प्रचारसंवेदनाच्च चित्तस्य परशरीरावेशः ॥ ३८ ॥
            [ विवरणम् ]
 आदर्शानुविधानाच्च । यथा खड्गे दीर्घं मुखं दृश्यते । न स्वमुखं दीर्घम्। प्रतिहतेन चेदुपलभ्येत चक्षुषा निजमुखं, तत्र आदर्शानुविधानमयुक्तम् ॥ ३५ ॥
  ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते । ततः स्वार्थे समाधानात् , प्रातिभात् आत्मसंयमजनितात् मानसात् ज्ञानात्, सूक्ष्मव्यवहितविप्रकृष्टातीतानागतज्ञानं सम्पद्यते । श्रावणात् दिव्यशब्दानां श्रवणम् । वेदनात् स्पर्शज्ञानात् सिद्धादीनां स्पर्शं जानाति । आदर्शात् चाक्षुषात् ज्ञानात्१ दिव्यं रूपम् अवगच्छति । आस्वादात् रसनेन्द्रियज्ञानात् दिव्यरससंवेदनं भवति । वृत्तौ भवं वार्तं लोकसंव्यवहारज्ञानं, तस्मादेष संव्यवहारतत्त्वरूपं यथावदधिगच्छति ॥ ३६ ॥ 
   ते समाधावुपसर्गा व्युत्थाने सिद्धयः । ते प्रातिभादयः पुरुषे समाहितचित्तस्य उ(स्य समु)त्पद्यमाना उपसर्गाः पुरुषदर्शनप्रत्यनीकत्वात् । व्युत्थितचित्तस्योत्पद्यमानाः सिद्धयः । यद्यपि पुरुषे संयमादुत्पद्यन्ते, तथापि न विरक्तस्य समाहितचित्तस्य जायन्ते ॥ ३७ ॥

--- -1:-- -अत्र-आदर्शकोशे इत उपरेि ‘तद्द्रव्यान्यथात्वेन? इति लिखितमस्ति । तस्यानन्वयात्, 4. पुटेभ्यः पश्चात् लिखितं *दिव्यं? इत्यादि वाक्यं योजितम् ।