एतत् पृष्ठम् परिष्कृतम् अस्ति
r विभूतिपादः तृतीयः . २९३
( भाष्यम्) लोलीभूतस्य मनसोऽप्रतिष्ठस्य शरीरे कर्माश'१याद्बन्धः प्रतिष्ठेत्यर्थः।। तस्य कर्मणो बन्धकारणस्य शैथिल्यं समाधिबलाद्भवति । प्रचारसंवेदनं च चित्तस्य समाधिजमेव । कर्मबन्धक्षयात्खचित्तप्रचारसवेदनाच्च योगी चित्तं स्वशरीरान्निष्कृष्य शरीरान्तरेषु निक्षिपति । निक्षिप्तं चित्तं चेन्द्रियाण्यनु पतन्ति । यथा मधुकरराजानं मक्षिका उत्पतन्तमनूत्पतन्ति निविशमानमनु निविशन्ते, तथेन्द्रियाणि परशरीरावेशे चित्तमनु विधीयन्त इति ॥ ३८ ॥ [ सूत्रमू ]
उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च ॥ ३९ ॥
[-भाष्यम् ] . समस्तेन्द्रियवृत्तिः प्राणादिलक्षणा जीवनं, तस्य क्रियाः पञ्चतयी [. विवरणम् ] बन्धकारणशैथिल्यात् प्रचारसंवेदनाच्च चित्तस्य परशरीरावेशः । लोलीभूतस्य घण्टाभिघाततुल्यस्य देदीप्यमानाङ्गारराशिद्युतिचञ्चलस्य मनसोऽप्रतिष्ठस्य शरीरे कर्माशयाद्बन्धः प्रतिष्ठेत्यर्थः । शरीरमात्रसंकोचावस्थानम् ॥ तस्य बन्धस्य कर्मं कारणम् । कारणशैथिल्यं , कर्माशयशिथिलत्वं समाधिबलाद्भवति । प्रचारसंवेदनं च चित्तस्य समाधिजमेव । कर्मबन्धक्षयात् स्वचित्तप्रचारसंवेदनाच्च ‘अस्मिन्निमित्ते हृष्यति मुह्यति लुभ्यति चानेन कारणेन' इत्येवमादिस्वचित्तसञ्चरणसतत्त्ववेदनाच्च योगी चितं स्वशरीरान्निष्कृष्य शरीरान्तरेषु निक्षिपति ॥ . . " . . .
" चित्तम् अस्य उत्पतत् इन्द्रियाणि अनूत्पतन्ति । तस्मादिन्द्रियवृत्तिलाभात् परशरीरेषु प्राणादिवृत्तय उत्पद्यन्ते । यथा मधुकरराजं मक्षिका उत्पतन्तमनूत्पतन्ति, निविशमानमनु निविशन्ते, तथेन्द्रियाणेि परशरीरावेशे चित्तमनु विधीयन्ते ॥ ३८ ॥ · · · · می उदानजयात् जलपङ्ककण्टकादिष्वसङ्ग उत्कान्तिश्च । समस्तेन्द्रियवृत्तिः जीवनं सर्वेषामेकादशानामिन्द्रियाणां वर्तनं जीवनम् । ... यथा पञ्जरगतशकुनिसञ्चलनेन पञ्जरचलनम् , एवम अशेषकरणानामेकेन संमूर्छितेन व्यापारेण येन शरीरं ध्रियते तज्जीवनम् । तस्य जीवनस्य पुरुषार्थकर्तव्यतानियमात् पञ्चतयी क्रिया प्राणापानव्यानोदानसमानभेदेन प्रस्तीर्यते ॥ ? --- 1. यवशाद्व