पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/338

एतत् पृष्ठम् परिष्कृतम् अस्ति

विभूतिपादः तृतीयः ጻቔዒ

             ] भाष्यम् [ ܣ
   १'तथा चोक्तम्- 
तुल्यदेशश्रवणानामे२कश्रुतित्वं सर्वेषां भवतीति। तच्चैतदाकाशस्य लिङ्गम् । अनावर३णात्मकं चोक्तम् । तथा'४ मूर्तस्यान्यत्राकाशादावरणदर्शनाद्विभुत्वमपि प्रख्यातमाकाशस्य । शब्दग्रहणानुमितं तु श्रोत्रम् । बधिराबधिरयोरेकः शब्दं गृह्णात्यपरो न गृह्णातीति । तस्माच्छ्रोत्रमेव शब्दविषयम् । श्रोत्राकाशयोः संबन्धे कृतसंयमस्य योगिनो दिव्यं श्रोत्रंं

प्रवर्तते ॥ ४१ ॥

    [ सूत्रम् ]

कायाकाशयोः संबन्धसंयमाल्लघुतूलसमापत्तेश्चाऽऽ काशगमनम् ।। ४२

       [ भाष्यम् ] 
यत्र कायस्तत्राऽऽकाशं, तस्यावकाशदानात्कायस्य तेन संवन्धः°५ ।। तत्र कृतसंयमो जित्वा तत्संबन्धं लघुषु तूलादिष्वा परमाणुभ्यः समापत्तेः°६
        ( विवरणम् ] 

तथा चोक्तम्--तुल्यदेशश्रवणानाम् । श्रूयतेऽनेनेति श्रवणम् । तुल्यदेशानि श्रवणानि येषां ते तुल्यदेशश्रवणाः । तेषाम् एकश्रुतित्वं सर्वेषां भवति ! तदेकस्मिन्नवकाशदायिनि निरावरणात्मके वस्तुनि सति · युज्यते । तचैतदाकाशस्य सत्त्वे लिङ्गम् ॥ तथा अनावरणात्मकं चोक्तम्। (कुतः) तथा मूर्तस्यान्यत्राकाशात् आकाशविलक्षणस्य घटादेः आवरणदर्शनात्। अतो यस्य मणिवज्रादिमध्येष्वप्यावरणं नास्ति, तदाकाशम् । अत एव विभुत्वमपि प्रख्यातमाकाशस्य ॥ श्रोत्रस्य लिङ्गमाह-शब्दग्रहणानुर्मितं तु श्रोत्रम् । यस्मात् बधिराबधिरयोरेकः शब्दं गृह्णाति अपरो न गृह्णाति । यन्निमित्तमबधिरस्य शब्दग्रहणमितरस्य चाग्रहणं तच्छ्रोत्रम् । तस्माच्छ्रोत्रमेव शब्दविषयम् । बधिरेणाश्रवणात् । श्रोत्राकाशयोः संबन्धे कृतसंयमस्य योगिनः दिव्यं श्रोत्रं प्रवर्तते ॥ ४१ ॥

कायाकाशयोः सम्बन्धसंयमात् लधुतूलसमापत्तेश्च आकाशगमनम् । यत्र कायः तत्र आकाशम् ! तस्य अवकाशदानात् कायस्य अविनाभावलक्षणः सम्बन्धः तेन आकाशेन । तत्र कायाकाशयोः इतरेतराविनाभावप्राप्ति-

1. यथोक्तम्- 3. -र्ण चोक्तम् 5. प्राप्तिस्तत्र-2. कदेशश्रु- 4. -ऽमूर्तस्यानाव- 6. त्तिं लब्ध्वा-