पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/339

एतत् पृष्ठम् परिष्कृतम् अस्ति

ع २९६ पातञ्जलयोगसूत्रभाष्यविवरणे

         [ भाष्यम् }
जितसंबन्धो लघुर्भवति। लघुत्वाच्च जले पादाभ्यां विहरति। ततस्तु ऊर्णनाभितन्तुमात्रे विहृत्य रश्मिषु विहरति । ततो यथेष्टमाकाशगतिरस्य भवतीति ॥ ४२ ॥
         [ सूत्रम् ]
बहिरकल्पिता वृतिर्महाविदेहा ततः प्रकाशावरणक्षयः॥ ४३ ॥
          [ भाष्यम् ]
शरीराद्बहिर्मनसो'१ या वृत्ति', सा विदेहा नाम धारणा । सा यदि शरीरप्रतिष्ठस्यैव भनसो बहिर्वृतिमात्रेण भवति, सा कल्पितेत्युच्यते ! या तु शरीरनिरपेक्षा बहिर्भूतस्यैव मनसो बहिर्वृत्तिः सा खल्वकल्पिता । तत्र कल्पितया साधयन्त्यकल्पितां महाविदेहामिति ।
        [ विवरणम् ] 
लक्षणसम्बन्धे कृतसंयमो योगी जित्वा तत्सम्बन्धं ततो लघुषु तूलादिषु आ परमाणुभ्यः समापत्तेः जितसम्बन्धः तूलादिवत् लाघवं प्रतिपद्यते ॥
  जितकायाकाशसम्बन्धः समापन्न: तुलादितुल्यलाघवशीलनार्थं जले पादाभ्यां विहरति । ततः ऊर्ध्वम् ऊर्णनाभितन्तुमात्रे विहरति । तत्र सञ्जातकोकिलतन्तुसमानलाघवः पुनः रश्मिषु विहरति । ततो मातरिश्वनि । ततो यथेष्टम् आकाशे गतिरस्य भवति ॥ ४२ ॥

बहिरकल्पिता वृत्तिर्महाविदेहा ततः प्रकाशावरणक्षयः ! शरीरात्२ बहिः देशान्तरे विषयविशेषे स्वयमेव समाधिबलात् उपजायते या मनसो वृत्तिः सा महाविदेहा नाम धारणा । सा यदि शरीरप्रतिष्ठस्यैव मनसो वृत्तिमात्रेण बहिः विषये भवति, तदानी कल्पिता उच्यते । शरीरस्थमनस्सङ्कल्पपूर्वकत्वात्। या तु समाधिबलनिमित्तात् शरीरे बन्धकारणशैथिल्यात् शरीरनिरपेक्षा बहिर्भूतस्यैव मनसो बहिर्वृत्तिः, सा खलु अकल्पिता इत्युच्यते । यथैव कल्पितायां शरीरावधिक एव बहिर्वृत्तिलाभः, एवं नाकाल्पतायां शरीराधिष्ठानावधिसमीक्षा ॥ सा चोभय्यपि विदेहैव बहिरुपकल्पितत्वात् । तत्र या इयमकल्पिता महाविदेहेति समाख्यायते । तत्र कल्पितया साधयन्त्यकल्पितां महाविदेहामू ! कल्पनासंशीलनसाध्यत्वादकल्पितायाः कल्पितया च संसाधयन्ति । 1. वृत्तिलाभो 2. अत्र आदर्शकोशे इत उपरि **विवेकजं?° इत्यादिः ग्रन्थः लिखितः । तस्यानन्वयात्, 18. पुटेभ्यः पश्चात् लिखितः **बहिः” इत्यादिः ग्रन्थः योजितः ॥