विभूतिपादः तृतीयः २९७
[ भाष्यम् ] यया परशरीराण्याविशन्ति योगिनः । ततश्च धारणातः प्रकाशात्मनो बुद्धिसत्वस्य यदावरणं क्लेशकर्मविपाकत्रयं रजस्तमोमूलं तस्य च क्षयो भवति ॥ ४३ ॥ [ सूत्रम् | स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद्भूतजयः ॥ ४४ ॥ [ भाष्यम् ]
। तत्र पार्थिवाः'१ शब्दादयो विशेषाः सहाऽऽकारादिभिर्धर्मैः स्धूलशब्देन परिभाषिताः । एतद्भूतानां प्रथमं रूपम् ।
[ विवरणम् ] यया महाविदेहया परशरीराण्याविशन्ति योगिनः ।। ततश्च धारणातः महा
विदेहातः प्रकाशात्मनो बुद्धिसत्वस्य यदावरणं क्लेशकर्मविपाकत्रयं रजस्तमो-
मूलं तस्य च क्षयो भवति ॥ ४३ ॥}
स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमात् भूतजयः । स्थूलं च स्वरूपं च सूक्ष्मं चान्वयश्चार्थवत्त्वं चेत्येवमेकैकं भूतं पञ्चात्मकम् । तत्र पार्थिवाः शब्दादयः शब्दस्पर्शरूपरसगन्धाः विशेषाः पञ्चलक्षणतन्मात्रारब्धत्वात् पृथिव्याः । सह आकारादिभिः । पृथिव्यास्तावदाकारादयः--- आकारो गौरवं रौक्ष्यं चेरणं स्थैर्यमेव च ।
स्थितिर्भेदः क्षमा कार्ष्ण्यं काठिन्यं सर्वभोग्यता ॥ इति ॥
तथा-स्नेहप्रभासौक्ष्म्यमार्दवगौरवरक्षापवित्रत्वसन्धानादय औदका गुणाः ॥ तथा-तैजसाः ऊर्ध्वभाक्त्वपावनतादग्धृत्वपाचकत्वलाघवभास्वरत्वादयः ॥ तथा-वायवीयाः तिर्यग्यानपवित्रत्वाक्षेपबलनोदनत्वादयः ॥ तथा-नाभसाः सर्वगत्यव्यूहविष्टम्भाः ॥ तदेतैः आकारादिभिः सह शब्दादयो विशेषाः स्थूलब्देन संव्यवहारार्थं शास्त्रे परिभाषिताः । एवमाप्याश्चत्वारो रसादयो विशेषाः सौक्ष्म्यादिभिः । सह, एवं तैजसा रूपादयस्त्रयो विशेषा ऊर्ध्वभाक्त्वादिभिः सह स्थूला उच्यन्ते । तथा वायवीयाः शब्दस्पर्शतिर्यक्पातादयः स्थूला विशेषाः । एवमाकाशस्य सर्वगतत्वादयः स्थूला विशेषाः । तत् एतत् भूतानां प्रथमं स्थूलं रूपं उक्तम् ॥ 1. वाद्याः 38