पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/341

एतत् पृष्ठम् परिष्कृतम् अस्ति

२९८ पातञ्जलयोगसूत्रभाष्यविवरणे

           [ भाष्यम् ]
  द्वितीयं रूपं १'सामान्यं मूर्तिर्भूमिः स्नेहो जलं वह्निरुष्णता वायुः *२प्रणामित्वं सर्वतोगतिराकाश इत्येतत्स्वरूपशब्देनोच्यते ॥
  • ३तस्य सामान्यस्य शब्दादयो विशेषाः । तथा चोक्तम्-एकजातिसमन्वितानामेषां धर्ममात्रव्यावृत्तिरिति ॥

सामान्यविशेषसमुदायोऽत्र द्रव्यम् । द्विष्ठो हि समूहः प्रत्यस्तमितभेदावयवः*४ शरीरं वृक्षो यूथं वनमिति ॥ शब्देनोपात्तभेदावयवानुगत: समूह उभये देवमनुष्याः । समूहस्य देवा एको भागो मनुष्या द्वितीयो भागस्ताभ्यामेवाभिधीयते समूह: ॥

             [ विवरणम् ] 
 द्वितीयम् अधुना स्वरूपम् उच्यते । तच्च सामान्यं पर्थिवेषु भिन्नेष्वभिन्नमनुगतं मूर्तिरेव भूमिः इति । तथा रसादिष्वाप्येष्वनुगतं सामान्यं स्नेह एव जलम् इति । तथैवाग्नयेषु रूपादिष्वनुगतं सामान्यं वह्निरुष्णत्वमेव ! तथा स्पर्शतिर्यक्पातादिष्वनुगतं सामान्यं प्रणामित्व५मेव वायु । तथा शब्दादिष्वनुगतम् सामान्यं सर्वतोगतिरेव आकाशः, इत्येतत् स्वरूपशब्देनोक्तं द्वितीयं रूपम् ॥
तस्य सामान्यस्य रूपस्य शब्दादयो विशेषाः । तथा चोक्तम्-एकजातिसमन्वितानां सत्त्वादिगुणसमनुगतानाम् एषां भूतानां पृथिव्यादीन सामान्यानां शब्दादिधर्ममात्रं व्यावर्तते ॥

सामान्यविशेषसमुदायो द्रव्यम् । कस्मात् ? द्विष्ठो हि समूहः द्वाभ्यां प्रकाराभ्यां स्थितो द्विष्ठः प्रत्यस्तमितभेदावयवः व्यावृत्तप्रत्ययशून्य इत्यर्थः । यथा शरीरं वृक्षो यूथं वनमिति ॥ उपात्तभेदावयवानुगतः आगृहीतभेदावयवानुगतः समूहः उभयशब्देनोपादीयते । उभये देवमनुष्या इति । तद्यथा-समूहस्य देवा एको भागः, मनुष्या एको भागः ! ताभ्यामेव भागाभ्यामागृहीतयथास्वभेदानुगताभ्याम् अभिधीयते समूहः उभये इति ॥ १ स्वसा २ प्रणामी ३ अस्य ४-वानुगतः' । ५ अत्र आदर्शकोशे इत उपरि **गुणाः शुक्लत्वादयः?? इत्यादिग्रन्थः लिखितः । तस्यानन्वयात्।। 15. पुटेभ्यः प्राक् लिखितः **मेव वायुः°° इत्यादिः ग्रन्थः योजितः ॥