पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/343

एतत् पृष्ठम् परिष्कृतम् अस्ति
३००
पातञ्जलयोगसूत्रभाष्यवैविवरणे

[ भाष्यम् ]

 अथ भूतानां चतुर्थं रूपं-ख्यातिक्रियास्थितिशीला गुणाः कार्य स्वरूपानुपातिनोऽन्वयशब्देनोक्ताः ।

[ विवरणम् ]

  ननु च केशादीनां कृष्णिमाडप्यपैति, शुक्लिमा समुपजायते । तथा च अपायोपजनधर्माणः कृष्णिमादयः ते गुणाः ! यतु न कृष्णिमानमनु विनश्यति, शुक्लिमानमन्वेति, तत् द्रव्यम् ! एवम् आकाशादीनामपि गुणव्यतिरेकेण सद्भावः, शब्दप्रत्ययादिभेदात् इति ॥

 न--दृष्टान्ताभावात् । ते एव कृष्णाः शुक्लाश्च केशाः कृष्णशुक्लत्वादिधर्मैः परिणमन्ते । सर्व हि सर्वात्मकमित्युक्तम् । न खलु क्वचिदपि कूटस्थे आश्रये २2गुणाः शुक्लत्वादयः अपायोपजनवन्त उपलभ्यन्ते । न च कृष्णत्वादिव्यपनयनेन द्रव्यस्वरूपम् । यदपि--दर्शनस्पर्शनाभ्यां यदुपलभ्यते तत् द्रव्यम् इति, तदप्ययुतसिद्धरूपस्पर्शसमुदायत्वादुभाभ्यां दर्शनस्पर्शनाभ्यां गृह्यत इत्यदोषः॥

 ननु च न रूपं स्पर्शनेन गृह्यते, नापि दर्शनेन स्पर्शः, यदुभाभ्यां गृह्यते 'यत् पश्यामि तदेव स्पृशामी’ति तद्द्रव्यम् । यत्तु चक्षुषैव गृह्यते स्पर्शनेनैव च गृह्यते स गुण इति ॥

 न--माषतिलयवादिभिन्नजातिविमिश्रराशावनैकन्तिकत्वात् । गृह्यते च दर्शनस्पर्शनाभ्यां राशिः । किं च-दर्शनस्पर्शने गुणस्यैव ग्राहके, बाह्येन्द्रियत्वात्, श्रोत्रवत् । न हि जातिरपि गुणव्यतिरिक्ता विद्यते भेदेनाग्रहणात् ॥

 किं च, घटादादावपि परस्पराध्यासेन दर्शनस्पर्शनाभ्यां रूपस्पर्शयोरेव ग्रहणम् । यथेदं रूपं दुर्गन्धि सुरभिगन्धि चेति । तस्मादाकाशमपि तन्मात्रारब्धं शब्दव्यतिरेकेणाशक्यं प्रतिपत्तुमिति सावयवमनित्यं च ॥

 अथ भूतानां चतुर्थं रूपम् । ख्यातिक्रियास्थितिशीला गुणाः कार्यस्वरूपानुपातिनः कार्यधर्मानुयायिनः अन्वयशब्देनोक्ताः । अनुगमात् । तदेतद्भूतानां चतुर्थं रूपं संयमस्य गुणान्वयाख्यो विषयः ॥


1. स्वभावानु- ya XV

ܐ سه 2. अत्र आदर्शकोशे इत उपरि “मनाशयंं" इत्यादिवाक्यं लिखितम् । तस्यानन्वयात्, 14. पुटेभ्यः पश्चात् लिखितं "**गुणाः? इत्यादि वाक्यं योजितम्"॥