पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/347

एतत् पृष्ठम् परिष्कृतम् अस्ति
३०४
पातञ्जलयोगसूत्रभाष्यविवरणे

[ भाष्यम् ]

  स्वरूपं पुनः प्रकाशात्मनोः"१ सामान्यविशेषयोरयुतसिद्धावयवभेदानुगतं*२ द्रव्यमिन्द्रियम् । तेषां तृतीयं रूपमस्मितालक्षणोऽहंकारः तस्य सामान्यस्येन्द्रियाणि विशेषाः । चतुर्थं रूपं व्यवसायात्मकाः प्रकाशक्रियास्थितिशीला गुणाः, येषामिन्द्रियाणि साहंकाराणि परिणामः । पञ्चमं रूपं गुणेपु यदनुगतं पुरुषार्थवत्त्वमिति । पञ्चस्वेतेष्विन्द्रियरूपेषु यथाक्रमं संयमः, तत्र तत्र जयं कृत्वा पञ्चरूपजयादिन्द्रियजयः प्रादुर्भवति योगिनः ॥ ४७ ॥

[ विवरणम् ]

 अथ स्वरूपं पुनः इन्द्रियाणां द्वितीयं रूपम् । प्रकाशात्मनोः सामान्यविशेषयोः विषयविशेषालोचनमिन्द्रियाणां विशेषः । यथा प्रदीपस्य घटादिविशेषाकारालोको विशेषः । प्रकाशमात्रं सामान्यम् । अतः सामान्यविशेषात्मकम् अयुतसिद्वावयवभेदानुगतं द्रव्यमिन्द्रियं प्रदीपवत् । यथा सामान्यमूर्तिधर्मः स्थूलादिष्वनुप्रवर्तते, तथेन्द्रियं प्रकाशात्मकं द्रव्यविशेषात्मिकायां ग्रहणवृत्तावनुप्रवर्तते । तदेतस्मिन् द्वितीये इन्द्रियाणां स्वरूपे संयमः क्रियेत ।

  तेषां इन्द्रियाणां तृतीयं रूपमस्मितालक्षणोऽहङ्कारः । तस्य अहङ्कारस्य सामान्यस्येन्द्रियाणि अयुतसिद्धावयवभेदानुगतानि ग्रहणरूपान्वयीनि विशेषाः । तत्र अस्मितायां संयमः करणीयः ॥

 चतुर्थं रूपं व्यवसायात्मकाः प्रकाशक्रियास्थितिशीला गुणाः । येषामिन्द्रियाणि साहङ्काराणि परिणामः । तत्र गुणानुगमे संयमः कर्तव्यः ॥

 पञ्चमं रूपं गुणेषु यदनुगतं पुरुषार्थवत्त्वम् । अतः सर्वेषामर्थवत्वमनुगमश्च पूर्ववत् ॥

 एवं एषु पञ्चस्विन्द्रियरूपेषु यथाक्रमं क्रमानतिक्रमेण संयमः । तत्र प्रत्येकं पञ्चसु जयं कृत्वा पञ्चस्वरूपजयं लभते । तस्मात् पञ्चस्वरूपजयादिन्द्रिय(Iादि)जयो वक्ष्यमाणफलाय प्रादुर्भवति योगिनः । यतु *३ततः परमा वश्यतेन्द्रियाणाम् ? इति, तद्विषयग्रहणवृत्तर्वेशित्वमात्रं विषयाप्रतिपत्तिरूपम् ॥ ४७ ॥


1. -नो बुद्धिसत्वस्य 2. -तः समूहो द्र 3. યો, સૂ. 2-55