पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/35

पुटमेतत् सुपुष्टितम्

xxxi

 "ब्रह्मसूत्रकृते तस्मै वेदव्यासाय वेधसे ।

 ज्ञानशक्त्यवताराय नमो भगवतो हरेः ॥

इति भामत्याम्,

 "नत्वा पतञ्जलिमृषिं वेदव्यासेन भाषिते ।

 संक्षिप्तस्पष्टबह्नर्था भाष्ये व्याख्या विधास्यते॥'

इति योगभाष्यटीकायां तत्वविशारद्यां च, ब्रह्मसूत्रकृतम् योगभाष्यकृतं च वेदव्यासशब्देन व्यवहरन् श्रीवाचस्पतिमिश्रः ' ब्रह्मसूत्रकृत् श्रीमन्नारायणावतारः वेदव्यास एव योगभाष्यकृत् इत्यावेदयति ॥

 श्रीपातञ्जलभाष्यदुग्धजलधिर्विज्ञानरत्नाकर:

 वेदव्यासमुनीन्द्रबुद्धिखनितो योगीन्द्रपेयामृतः।”

इति विज्ञानभिक्षुप्रणीतयोगवार्तिकस्थं पद्यमपि अमुमभिप्रायं परिपोषयति ॥

 लघुमञ्जूषायाः कलाख्यटीकाकृत् पायगुण्डवैद्यनाथभट्टः (काशीमुद्रित पुस्तके (३२१) पुटे) "योगसूत्रभाष्ये वेदान्तसूत्रकृदुक्तत्वात्" इति वाक्येन स्पष्टमेव योग्भाष्यकर्तारमेव ब्र्ह्मसूत्रकर्तारमवगमयति ॥

 इत्थमेव विवरणकर्ताऽपि श्रीपरमेश्वरावतारभूतः भगवत्पाद एवेति निर्णेतुमस्त्यवकाशः । यतः प्रस्थानत्रयभाष्यग्रन्थेष्विव अत्रापि प्रतिपादम् ग्रन्थसमाप्तौ "इति श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य परमहंसपरिव्राजकाचार्यस्य श्रीशङ्करभगवतः कृतौ श्रीपातञ्जलयोगशास्त्र(सूत्रभाष्य)- विवरणे प्रथमः पादः " इत्यादि स्फुटं विलिखितमादर्शकोशे ॥

 यद्यपि योगसूत्रतद्भाष्ययोः ग्रन्थान्तरेषु पतञ्जलिवेदव्यासकर्तृकत्वव्यवहारवत् अत्र विवरणे भगवत्पादकर्तृकत्वव्यवहारः इयदवधि नोपलभ्यते, तथाऽपि ग्रन्थसमाप्तौ भगवत्पादकृतत्वनिर्देश एव परमं प्रमाणं यावद्बाधकनुपलम्भं प्रमाणानां स्वतःप्रामाण्यवादिनामलम् ॥

 कि​ञ्च, 'ओमित्येतदक्षरमित्याद्यष्टाध्यायी छान्दोग्योपनिषत् । तस्याः संक्षेपतोऽर्थजिज्ञासुभ्यः ऋजुविवरणमल्पग्रन्थमिदमारभ्यते ? इति छान्दोग्योपनिषद्भाष्योपक्रम इव, "अथ 'आध्यात्मिकान् योगान् ? इत्याद्यध्यात्मपटलस्य संक्षेपतो विवरणं प्रस्तूयते" इति आपस्तम्बधर्मसूत्रीयप्रथमप्रश्नाष्टमपटलविवरणोपकम इव च, अत्रापि 'अथेत्यादिपातञ्जलयोगशास्त्र विवरणमारभ्यते' इति ग्रन्थारम्भशैलीसादृश्यं, ग्रन्थस्य विवरणनाम-