पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/351

एतत् पृष्ठम् परिष्कृतम् अस्ति
३०८
पातञ्जलयेागसूत्रभाष्यविवरणे

[ भाष्यम् ]

 चतुर्थो यस्त्वतिक्रान्तभावनीयः तस्य चित्तप्रतिसर्ग एव एकोऽर्थः । सप्तविधा तस्य प्रान्तभूमिप्रज्ञा ॥

 तत्र मधुमतीं भूमिं साक्षात्कुर्वतो ब्राह्मणस्य स्थानिनो देवाः सत्त्वाविशुद्धिमनुपश्यन्तः स्थानैरुपनिमन्त्रयन्ते ‘भो इहाऽऽस्यतामिह रम्यतां कमनीयोऽयं भोगः कमनीयेयं कन्या रसायनमिदं जरामृत्युं बाधते वैहायसमिदं यानममी कल्पद्रुमाः पुण्या मन्दाकिनी सिद्धा महर्षय उत्तमा अनुकूला अप्सरसो दिव्ये श्रोत्रचक्षुषी वज्रोपमः कायः स्वगुणैः सर्वमिदमुपार्जितमायुष्मता प्रतिपद्यतामिदमक्षयमजरममरस्थानं देवानां प्रियम्’ इति । एवमभिधीयमानः सङ्गदोषान् भावयेद्धोरेषु संसाराङ्गारेषु पच्यमानेन मया जननमरणान्धकारे विपरिवर्तमानेन कथंचिदासादित: क्लेशतिमिरविनाशी योगप्रदीपस्तस्य चैते तृष्णायोनयो विषयवायवः प्रतिपक्षाः । स खल्वहं लब्धालोकः कथमनया विषयमृगतृष्णया वञ्चितस्तस्यैव पुनः प्रदीप्तस्य संसाराग्नेरात्मानमिन्धनीकुर्यामिति । स्वस्ति वः स्वप्नोपमेभ्यः कृपणजनप्रार्थनीयेभ्यो विषयेभ्य इत्येवं निश्चितमतिः समार्धि भावयेत् ॥

 सङ्गमकृत्वा स्मयमपि न कुर्यादेवमहं देवानामपि प्रार्थनीय इति । स्मयादयं सुस्थितमन्यतया मृत्युना केशेषु गृहीतमिवाऽऽत्मानं न भावयिष्यति । तथा चास्य च्छिद्रान्तरप्रेक्षी नित्यं यत्नोपचर्यः प्रमादो लब्धविवरः क्लेशानुत्तम्भयिष्यति । ततः पुनरनिष्टप्रसङ्गः । एवमस्य सङ्गस्मयावकुर्वतो भावितोऽर्थो दृढीभविष्यति । भावनीयश्चार्थोऽभिमुखीभविष्यतीति ॥ ५१ ॥

[ विवरणम् ]

 यस्त्वतिक्रान्तभावनीयश्चतुर्थ: तस्य चित्तप्रतिसर्ग एव चित्तप्रलय एव एकोऽर्थः परिशिष्टः । सप्तविधा । तस्य प्रान्तभूमिप्रज्ञा । तत्र मघुमतीं भूमिं द्वितीयामृतम्भरप्रज्ञाभूमेिं साक्षात्कुर्वतो ब्राह्मणस्य स्थानिनो देवाः सत्वविशुद्धिमनुपश्यन्तः स्थानैरुपमन्त्रयन्ते । भोः इत्यादि-प्रसिद्धार्थं भाष्यम् ॥ ५१ ॥