पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/352

एतत् पृष्ठम् परिष्कृतम् अस्ति
३०९
विभूतिपादः तृतीयः

[ सूत्रम् ]

क्षणतत्क्रमयोः संयमाद्विवेकजं ज्ञानम् ॥ ५२ ।.

[ भाष्यम् ]

  यथाऽपकर्षपर्यन्तं द्रव्यं परमाणुरेवं १'अपकर्षपर्यन्तः कालः क्षणः । यावता वा समयेन विचलितः परमाणु: पूर्वेदेशं जह्यादुत्तरदेशम'२भिसंपधेत स कालः क्षणः ।। *३तस्य प्रवाहाविच्छेदभाविनः आनन्तर्यं क्रमः ।। क्षणतत्क्रमयोर्नास्ति वस्तुसमाहार इति । बुद्धिसमाहारात् मुहूर्ताहोरात्रादयः ।

[ विवरणम् ]

 क्षणतत्क्रमयो- संयमाद्विवेकजं ज्ञानम् ।। क्षणं क्रमं च स्वयमेव विस्तरेणाचष्टे--तत्र अपकर्षपर्यन्तं यतः परमपकर्षो न शक्यते कर्तुं तद्द्रव्यं परमाणुः । एवं लोकबुद्धिविकल्पितादहोरात्रलक्षणादपकृष्यमाणात् कालादल्पीयःपरिजिघृक्षया यतः परम् अपक्रष्टुं न शक्यते सः अपकर्षपर्यन्तः कालः क्षणः वस्तुभूतः ॥

 यद्वा, यावता समयेन विचलितः परमाणुः पूर्वं देशं जह्मादुत्तरमभिसंपद्येत स*४ कालः क्षणः । सर्वथाऽप्यस्ति (सूक्ष्म)क्षण इत्यर्थः ॥

 तस्य प्रवाहाविच्छेदभाविनः तस्य क्षणस्य प्रवाहः प्रबन्धः अविच्छेदो नैरन्तर्यं तथा भवितुं शीलं यस्य क्षणस्य प्रवाहाविच्छेदभाविनः क्षणस्य यत् आनन्तर्यं सः क्षणस्य क्रमः । तयोश्च क्षणतत्क्रमयोर्नास्ति वस्तुसमाहारः क्षणक्रमस्यावस्तुत्वात् क्षणस्य चैकत्वात् नास्ति तयोः समाहारः समूहः ॥

 ननु चासति क्षणतत्क्रमसमाहारे कथं माससंवत्सरादयः प्रवर्तेरन्निति, तदर्थमाह-बुद्धिसमाहारात् बुद्धिपरिकल्पितात् क्षणतत्क्रमयोः समाहारादादित्यादिदेशान्तरसंबन्धावबन्धबुद्विसमुद्भावितात् मुहूर्ताहोरात्रादयः । ततश्च बुद्धिस्थित एष भेदः ।

 यो हि प्रसन्नसमानप्रत्ययप्रवाहिमानसः एकाग्रभूमिप्रतिष्ठिचित्तसत्वः, तस्य सत्यपि कालानुभवे क्षणयुगसहस्रयोस्तुल्यता । नैवं व्युत्थितचित्तस्य । तथा स्वप्नेऽपि घटिकामात्रेण बुद्धिपरिकल्पितं योजनसहस्रनमनेकं संवत्सरेणैव [गन्तव्यं] गच्छति । तस्माद्बुद्धिवैचित्र्यानिर्मित एव कालसमाहारः ।


1. परमाप- 2. मुपसंपद्येत 3. तत्प्रवाहाविच्छेदस्तु क्र 4. अत्र आदर्शकोशे इत उपरि ‘ग्राह्योपरक्त:” इत्यादि वाक्यं लिखितम्। तस्यानन्वयात्, 13. पुटेभ्यः पूर्वे लिखितं ‘‘कालः क्षणः सर्वथा?’ इत्यादिवाक्यं योजितम्॥