पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/354

एतत् पृष्ठम् परिष्कृतम् अस्ति
३११
विभूतिपादः तृतायः



[ भाष्यम् ]

तं कालविदः काल इत्याचक्षते योगिनः । न च द्वौ क्षणौ सह भवतः । क्रमश्च न द्वयोः, सहभुवोरसंभवात् । पूर्वस्मादुत्तरस्य भाविनो यदानन्तर्यं क्षणस्य स क्रमः । तस्माद्वर्तमान एवैकः क्षणो न पूर्वोत्तरक्षणाः सन्तीति । तस्मान्नास्ति तत्समाहारः । ये तु भूतभाविनः क्षणास्ते परिणा'मास्तितया व्याख्येयाः । तेनैकेन क्षणेन कृत्स्नो लोकः परिणाममनुभवति । तत्क्षणोपारूढाः खल्वमी सर्वे धर्माः ! तयोः क्षणतत्क्रमयोः संयमात्तयोः साक्षात्करणम् । ततश्च विवेकजं ज्ञानं प्रादुर्भवति ॥ ५२ ॥

[ विवरणम् ]

 तं क्षणं कालाविदः काल इत्याचक्षते योगिनः । न च द्वौ क्षणौ सह भवतः, ययोः समाहारः कल्प्येत । एकस्मिन् धर्मिणि सहजन्मनोः क्षणयोरसंभवात् । जायमानो हि चैत्र एकस्मिन् क्षणे जायते । न तत्र द्वौ क्षणौ सह भवतः क्रमश्च न द्वयोः । कस्मात् ? द्वयोः क्षणयोः सहभुवोरसम्भवात् ॥

 पूर्वस्मादुत्तरस्य भाविनो यदानन्तर्यं क्षणस्य स क्रमः । यथा पिण्डादुत्तरभाविनो घटस्य यदानन्तर्यं स क्रमः । न हि चक्रान्तरस्थस्य मृत्पिण्डस्य चक्रान्तरस्थमृत्पिण्डजनितो घटः क्रमे वर्तते ! तस्माद्वर्तमान एवैकः क्षणः । न पूर्वोत्तरावतीतानागतौ स्तः पूर्वोत्तरयोर्धर्मिस्वरूपमात्रत्वात् । धर्मी च वर्तमानक्षणारूढ एव । तस्मान्नास्ति तत्समाहारः क्षणतत्क्रमसमाहारः ॥

 ये तु भूतभविनः अतीतभविष्यन्तः क्षणाः ते धर्मिणः परिणामास्तितया धर्मेिपरिणामापेक्षया व्याख्येयाः: | तनैकेन क्षणेन कृत्स्नो लोक: परिणाममनुभवति । तत्क्षणेापारूढाः वर्तमानक्षणोपारूढाः खल्वमी सर्वे धर्माः सर्वपदार्थाः ॥

 यदुक्तमतीतक्षणस्य नास्ति क्रम इति, तस्यैतत् प्रयोजनं, तत्क्रमक्रमप्रतिषेधः । क्षणक्रमक्रमे हि सति क्षणक्रमस्य वस्तुत्वं प्रसज्येत । वस्तुनो हि क्रम इति । ततश्च क्रमतत्क्षणयोः संयमादिति नोपकल्पेत । तस्मात् एतयोः क्षण[तत्]क्रमयोः संयमात् तयोः साक्षात्करणम् । ततश्च विवेकजं ज्ञानम्। क्षणतत्क्रमाङ्किता एव हि सर्वे पदार्था इति तानशेषान् विवेच्य विजानाति ॥ ५२ ॥


1. -मान्विता