पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/36

पुटमेतत् सुपुष्टितम्

xxxii

साजात्यं, ब्रह्मसूत्रभाष्ये "स्मरन्ति च" (४-१-१०) इत्यत्र "अत एव पद्मकादीनामासनविशेषाणामुपदेशो योगशास्त्रे” इति, "प्रदीपवदावेशस्तथा हि दर्शयति" (४-४-१५) इत्यत्र "एषैव च योगशास्त्रेषु योगिनामनेकशरीरयोगप्रक्रिया” इति, “एतेन योगः प्रत्युक्तः" (२-१-३) इत्यत्र "योगशास्त्रेऽपि ‘अथ तत्त्वदर्शनाभ्युपायो योगः" इति सम्यग्दर्शनाभ्युपायत्वेनैव योगोऽङ्गीक्रियते " इति च बहुषु स्थलेष्विव अत्रापि 'योगशास्त्रविवरणमारभ्यते' इति योगशास्त्रपदेनैव योगग्रन्थनिर्देश:, प्रमेयप्रतिपादनशैलीसाम्यं चेत्यादिकं • विमृश्यमानं भगवत्पादप्रणीतत्वं विवरणग्रन्थस्य अभ्यूहितुं कियन्तमिव अवकाशं ददाति । विमर्शकाभिमानिनः इयतैव च तुष्येरन् ॥

 अत्रेयं शङ्का केषाञ्चित् उदियात्-ब्रह्मसूत्रकृत् वेदव्यास एव योगभाष्यकर्ता, ब्रह्मसूत्रभाष्यकृत् भगवत्पाद एव च योगभाष्यविवरणकर्ता इत्यभ्युपगमो न युज्यते, वेदान्तदर्शने "एतेन योगः प्रत्युक्तः” इति योगदर्शननिराकरणात्, अप्रमाणत्वेनाभ्युपगतस्य योगसूत्रस्य निराकर्तृभ्यामेव वेदव्यासभगवत्पादाभ्यां भाष्यतद्विवरणप्रणयनायेागात्---इति !

 तस्या इत्थं समाधानं प्रतिभाति--योगदर्शनं न तु सर्वथा निराकृतम् , अप्रमाणत्वेनाभ्युपगतं च, ब्रह्मसूत्रतद्भाष्यकृद्भ्याम् । यतः योगप्रत्युक्त्यधिकरण एव वेदव्यासहृदयविदो भगवत्पादा:-'सम्यग्दर्शनाभ्युपायो हि योगो वेदे विहितः "श्रेोतव्यो मन्तव्यो निदिध्यासितव्यः"(बृह-उप.२-४.५०)इति ।"त्रिरुन्नतं स्थाप्य समं शरीरम्" (श्वेताश्व. २-८-) इत्यादिना च आसनादिकल्पनापुरस्सरं वहुप्रपञ्चं योगविधानं श्वेताश्वतरोपनिषदि दृश्यते । लिङ्गानि च वैदिकानि योगविषयाणि सहस्रश उपलभ्यन्ते-"तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम्' (का.उ.२-६-११) इति, “ विद्यामेर्तं योगविधिं च कृत्स्नम्” इति चैवमादीनि । योगशास्त्रेऽपि-"अथ तत्त्वदर्शनाभ्युपायो योगः” इति। सम्यग्दर्शनाभ्युपायत्वेनैव योगोऽङ्गीक्रियते' इत्यादिना वाक्येन योगम् औपनिषदसम्यग्ज्ञानसाधनम् अभ्युपागमन् । ‘निराकरणं तु न साङ्ख्यज्ञानेन वेदनिरपेक्षेण योगमार्गेण वा नि:श्रेयसमधिगम्यते इति । श्रुतिर्हि वैदिकादात्मैकत्वविज्ञानादन्यनिःश्रेयससाधनं वारयति----"तुमेव वेिदित्वा अति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय"(श्वे.उ.३८)इति,'द्वैतिनो हि ते साङ्ख्या योगाश्व नात्मैकत्वदर्शिनः” 'येन त्वंशेन न विरुध्यते तेनेष्टमेव साङ्ख्ययोगस्मृत्योः सावकाशत्वम् '