पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/360

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीः

॥ पातञ्जलयोगसूत्रभाष्यविवरणम् ॥

। चतुर्थः कैवल्यपादः ।

[ पातञ्जलयोगसूत्रम् ]

जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः ॥ १ ॥

[ व्यासभाष्यम् ]

देहान्तरिता जन्मसिद्धिः । ओषधिभिरसुरभवनेषु रसायनेनेत्येवमादिः।

[ विवरणम्

 प्रथमे पादे समाधिः प्राधान्येन निर्दिष्टः । द्वितीये तत्साधनानि व्याख्यातानि । तृतीये तु सम्यग्दर्शनार्थयोगाङ्गानुष्ठानानुषङ्गजज्ञानैश्चर्यानुक्रमणं कृतम् । तच्च सर्वं दु:खस्येति जैगीषव्याख्यानेन प्रतिपादितम् । दु:खहानं चात्यान्तिकगुणोपरम इल्युक्तम् । तथैव ‘तद्वैराग्यादपि'१ दोषबीजक्षये कैवल्यम्। ” प्राप्तविवेकज्ञानस्याप्राप्तविवेकज्ञानस्यवा २“सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यम्' इत्यनन्तरमुक्तम् । तच्च कैवल्यं प्रतिपक्षनिवर्तनेन प्रतिपादनीयमितीदं कैवल्यपादानुक्रमणं क्रियते ।

 तथा अनेकजन्मान्तरोपार्जितवासनोच्छेदप्रकाराश्व कैवल्यार्थमेव प्रदर्शनीयाः । तथा कैवल्योपयोगिसमाधिसिद्धिस्तुत्यर्थं पूर्वत्रानुक्तं सिद्धयन्तरं प्रक्रियते । तुल्यजातीयानामन्यतमनिन्दनेनान्यतमस्तुतिर्भवति ।। तत्र ३*ध्यानजमनाशयम्’ 'कर्माशुक्लाकृष्र्णं योगिनस्त्रिविधमितंरेषाम्” इति वक्ष्यमाणेन स्तुत्यर्थता आविष्करिष्यते ।

 जन्मौषधिमन्त्रतपस्समाधिजाः सिद्धयः । देहान्तरिता यथा योगादिना देहान्तरेषु स्वर्गादिषु जन्मसिद्धिः । ओषधिभिरसुरभवनेषु रसायनेन


1. यो. सू. पा. ३*. सू. 50. 2- यो. सू. पा. 3. सू. 55 3. यो. t qT。 4, 6- 7.