पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/364

एतत् पृष्ठम् परिष्कृतम् अस्ति
३२१
कैवल्यपादःचतुर्थः

[सूत्रमू ]

प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम् ॥ ५ ॥

[ भाष्यम् ]

 बहूनां चित्तानां कथमेकचित्ताभिप्रायपुरःसरा प्रवृत्तिरिति सर्वचित्तानां प्रयोजकं चित्तमेकं निर्मिमीते, ततः प्रवृत्तिभेदः ॥ ५ ॥

[सूत्रम् ]

तत्र ध्यानजमनाशयम् ॥ ६ ॥

[भाष्यम् ]

 पञ्चविधं निर्माणचित्तं जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धय इति । तत्र यदेव ध्यानजं चित्तं तदेवानाशयं, तस्यैव नास्त्याशयो रागादिप्रवृत्तिः, नातः पुण्यपापाभिसंबन्धः, क्षीणक्लेशत्वाद्योगिन इति । इतरेषां तु विद्यते कर्माशयः ।। ६ ॥

[विवरणम् ]

 यद्येवं कथं बहूनां चितानाम् एकचिताभिप्रायपुरस्सरा प्रवृतिरिति । तत्रोच्यते-प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम् । प्रवृत्तिभेदे सत्यपि सर्वचित्तानां प्रयोजकं चित्तमेकं फलाधिकृतदेशीयं शरीरान्तरे निर्मिमीते ॥

 तञ्च योगिबुद्धिमनुवर्तते । अन्यानि च निर्माणचित्तानि भिन्नानेकप्रवृत्तीनि । तन्नायकचित्तानुवर्तीनि भवन्ति । ततश्च तेषां प्रवृत्तिः 'निवृत्तिः उपेक्षा इत्येवमादिप्रवृतिभेदः उपपद्यते । राजप्रकृतिप्रवृतिभेदवत् । एवमेकचित्ताभिप्रायपुरःसरा च प्रवृतेिरवकल्पते ॥ ५ ॥

 तत्र ,ध्यानजमनाशयम् । पञ्चविधं निर्माणचित्तं जन्मौषधिमन्त्रतपस्समाधिसामर्थ्यनिर्मितम् । तत्र तेषु "यदेव ध्यानजं चित्तं तदेव 'अनाशयं क्लेशकर्माशयापवर्जितम् । तस्यैव नास्त्याशयः रागादिप्रवृत्तिः, अतो न पुण्यपापाभिसंबन्धः क्षीणक्लेशत्वाद्योगिनः ।। *क्लेशमूलो हि ‘कर्माशयः? इत्युक्तम् ।तदभावाच्च कर्माशयानुपपत्तिः । अपरे* तु जन्मादिसिद्धानां कर्माशयः अक्षीणक्लेशत्वाद्विद्यते एव ॥ ६ ॥


1. अत्र आदर्शकोशे इत उपरि “वायुस्तथा” इत्यादिवाक्यं लिखितम् । तस्यानन्वयात्, 2. पुटाभ्यां पश्चात् लिखितं ‘अनाशयं” इत्यादि वाक्यं योजितम् ।