पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/371

एतत् पृष्ठम् परिष्कृतम् अस्ति
३२१
कैवल्यपादः कतुथैः



[ भाष्यम् ]



कस्मात्? जातमात्रस्य जन्तोरननुभूत१'जननमरणधर्मकस्य द्वेषदुःखानुस्मृतिनिमित्तो मरणत्रासः कथं भवेत् ? न च स्वाभाविकं वस्तु निमित्तमुपादत्ते । २*यस्मादनादिवासनानुविद्धमिदं चित्तं निमित्तवशात् काश्चिदेव वासनाः प्रतिलभ्य पुरुषस्य भोगायोपावर्तत इति ॥

 घटप्रासादप्रदीपकल्पं संकोचविकासेि चित्तं शरीरपरिमाणाकार



[ विवरणम् ]

 कस्मात्? जातमात्रस्य अननुभूतजननमरणधर्मकस्य द्वेषानुस्मृतिनिमित्तो दुःखानुस्मृतिहेतुको वा मरणत्रासः कथं भवेत् ? न हि कथञ्चन दु:खस्मरणादिनिमित्तोपादानं स्वाभाविकस्योपपद्यते । न च स्वाभाविकं वस्तु - निमित्तमुपादत्ते । न हि ज्वलनस्योष्णत्वं स्वाभाविकं सदात्मीयकार्ये निमित्तमीक्षेत ।

 न चाननुभूते विषये स्मृतिरिष्टेऽनिष्टे वा कस्यचिदुपप्लोष्यते । अनुभूतप्रियाननुस्मरणे, न च तद्विषयवाञ्छा । तथा अनुभूताप्रियाननुस्मरणे, न तद्विषयो द्वेषस्रासश्व लोके परिदृश्यते । तथा च यो यो जातस्तस्य तस्येह जन्मन्यननुभूतजन्ममरणस्य जन्मानन्तरमेवात्माशीरभिदृश्यते । तस्मात् तदाशीर्नित्यत्वात् पूर्वजन्ममरणानुभवोऽनुमीयते । ततः पूर्वस्ततोऽपि पूर्वं इति, स्मृतिसंस्काराणां तत्कारणानां च जन्ममरणानुभवानामनादित्वमनुमिमीमहे ॥

 तथैव एकैकस्य प्राणभृतोऽनेकयोनिगमनसिद्विः । एवमेता वासना दुरवहना अविहानीयाः । कुत एवम् ? यस्मादनादिवासनानुविद्धं चित्तमिदं निमित्तवशात् कर्मनिमित्तवशात् काश्चिदेव वासनाः प्रविपच्यमानकर्मतुल्यजातीयक्रियाविपाकाभि(न्न)निष्पादिताः प्रतिलभ्य पुरुषस्य भोगायोपावर्तते यावदवसिताधिकारमेिति ॥

 तदेतच्चित्तं घटप्रासादप्रदीपकल्पं संकोचविकासि हस्तिमशकादिशरीरपरिमाणाकरं यथा दीपो घटप्रासादादिषु । तदेवम् अपरे प्रतिपन्नाः । तत्र च युक्तिमाह-३*तथा चेति । तथा च संकोचविकसित्वे च अन्तराभावः


1. तमरण- 2. तस्मा 3. 'अत्र आदर्शकोशे इत उगरिं *अभावाविशेषात्? इत्यादि वाक्यं लिखितम् । तस्यानन्वयात्, 13. पुटेभ्यः पूर्वे लिखितं **तथा चेति । तथा च संकोचविकासित्वे च” इत्यादिवाक्यं योजितम् ॥