पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/374

एतत् पृष्ठम् परिष्कृतम् अस्ति
३३२
पातञ्जलयोगसूत्रभाष्यविवरणे

[ भाष्यम् ]

 अस्य च प्रतिक्षणमावर्तमानस्याविद्या नेत्री मूलं सर्वक्लेशानामेित्येष हेतुः । फलं तु यमाश्रित्य यस्य प्रत्युत्पन्नता धर्मादेः, न ह्यपूर्वोपजनः । मनस्तु साधिकारमाश्रयो वासनानाम् । न ह्यवसिताधिकारे मनसेि निराश्रया वासनाः स्थातुमुत्सहन्ते | यदभिमुखीभूतं वस्तु यां वासनां व्यनक्ति तस्यास्तदालम्बनम् । एवं हेतुफलाश्रयालम्बनैरेतैः संगृहीताः सर्वा वासनाः । एषाममावे तत्संश्रयाणामपि वासनानामभावः॥ ११ ॥}}}}

[विवरणम् ]

 इत्येवमनवरतप्रारब्धपरिभ्रमणं प्रवृत्तमिदं षडरं संसारचक्रम् । अस्य च प्रतिक्षणमावर्तमानस्यविद्या नेत्री रथचकस्य तुरङ्ग:युवतिरिव ॥

 सा मूलं सर्वक्लेशानामिति यदेतदविद्यानेतृकं षडरं चक्रम् एष हेतुः वासनानाम् । एतश्चक्रावृतिकृता हि ताः । अविद्यायास्त्वभावे विशीर्णनाभिबन्धनमिव चक्रं, धर्मादिहेतुचक्रमपि विशीर्यते । तद्विशरणे च चक्रावृतेि. कृतजन्मनां वासनानामकार्यक्षमत्वम् ॥

 फलं तु यम् अर्थम् आश्रित्य यस्य प्रत्युत्पन्नता तत् तस्य फलम् । तदपि वासनानां संग्राहकम् । तदभावे वासनाभिव्यक्त्यभावात् । सुखादिफलस्य वासनाधायित्वात् । न ह्यपूर्वोपजनः । नात्यन्तमसदुत्पद्यते ॥

 मनः साधिकारं कर्तव्यतावत् न पुरुषार्थशून्यम् । कृतपुरुषार्थस्वरूपज्ञानं विनिवृत्ताविद्याकमिति साधिकारमाश्रयो वासनानाम् । तदाश्रित्य हेि हेतुचक्रपरिभ्रमणम् । न ह्मवसिताधिकारे करणीयपुरुर्षाथशून्ये मनसेि निराश्राया वासनाः स्थातुमुत्सहन्ते ।

 यदभिमुखीभूतं वस्तु यां वासनां व्यनक्ति तस्यास्तदालम्बनम् ।एवं हेतुफलाश्रयालम्बनैरेतैः संगृहीताः सर्वा वासनाः । तेषां हेत्वादीनाम् अभावे तत्संश्रयाणामपि वासनानामभावः छत्राभावे छायानिवृतिवत् ॥

 एषां चाभावोपायो द्वितीयपादे व्याख्यातः । तस्मातू न वासना सम्यग्दर्शने सति कैवल्यप्रतिबन्धिनी । भवत्येवाविद्यानिवृत्तौ कैवल्यमिति ॥ ११॥