पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/376

पुटमेतत् सुपुष्टितम्
३३४
पातञ्जलयोगसूत्रभाष्याविवरणे

[ भाष्यम् ]

भोगभागीयस्य वाऽपवर्गभागीयस्य वा कर्मणः फलमुत्पित्सु यदि निरुपाख्यमिति तदुद्देशेन तेन निमितेन कुशला1नुज्ञानं न युज्येत । सतश्च}}

[ विवरणम् ]

{{gap}}त्रयं चैतत् अतीतानागतवर्तमानलक्षणकं वर्तमाने धर्मिणि वर्तमानं धर्मरूपं वस्तु समस्तलोकविनिश्चितरूपस्याव्यभिचारिणो ज्ञानस्य प्रमाणभूतस्य ज्ञेयम् इति सङ्गिरामहे ! कस्मात्? निश्चितज्ञानोत्पत्तिविषयत्वात् ॥

{{gap}}यदि चैतद्वस्तु स्वरूपतो नाभविष्यत् नेदं निर्विषयं ज्ञानमुदपत्स्यत । यथा शशविषाणादि निश्चितज्ञानोत्पत्तिकारणं न भवति । न च तथेह निश्चितवस्तुज्ञानोत्पत्तिहेतुविषयत्वं न विद्यते । सकलजनानुभवविषयमिदं ज्ञानं वर्तते । घटो भविष्यति घटो भूत इति च । तस्माद्वस्त्वेव कालत्रयसम्बन्धि । परिनिश्चितज्ञानोत्पत्तिविषयत्वात् ॥

 अथ वा नावस्तुविषयमतीते भविष्यति च घटादौ ज्ञानम् । शब्दविकल्पितत्वे सति निश्चितरूपेण उत्पद्यमानत्वात्, वर्तमानघटादिविषयज्ञानवत् । अव्यभिचाराञ्च, । लिङ्गानुमेयत्वाच्च, धूमेन अग्न्यादिज्ञानवत् । लिङ्गदर्शनानन्तरोत्पत्तेर्वा ।

 यद्वा, अतीतमनागतं च वस्तु सत् स्वरूपेण, लिङ्गदर्शनानन्तरबुद्विविषयत्वात्, प्रसिद्धानुमेयवत् । तस्मादतीतानागतं स्वरूपतोऽस्ति ॥

 किं च-भोगभागीयस्य भोगहितस्य यागादे:, अपवर्गभागीयस्य वा अपवर्गहितस्यं समाध्यादेः कर्मणः फलमुत्पित्सु यस्य नास्ति तस्य वादिनः तत् निरुपाख्यं प्राप्नोति शशविषाणवत् । न हि शशविषाणं भविष्यतीत्युपाख्यायते । न तथेह । किं तर्हिं? यागेन स्वर्गो भविष्यति समाध्यादिना मोक्षो भविष्यति इति च कुशलैः अतिकठोरमतिभिरुपाख्यायते ॥

 तस्मात् निरुपाख्यत्वात् तदुद्देशेन फलोद्देशेन । निरुपाख्यत्वात् तेन फलेन निमित्तेन कुशलानुज्ञानम् इदं कुरु भविष्यति चानेनादः इति स्वयमप्रतिपद्यमानाः कुशलाः कथमनुजानीयुः उपदिशेयुर्वा। किं च, दृष्टमात्रप्रतिपत्तौ कुशलाकुशलाविशेषश्व प्राप्नोति । कुशलानां वा मिथ्याप्रतिपत्तिः "अकुशलाः समीचीनदर्शनाः" इति |


1. नुष्ठानं