पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/377

पुटमेतत् सुपुष्टितम्
३३५
कैवल्यपादः चतुर्थः

[ भाष्यम् ]

फलस्य निमित्तं वर्तमानीकरणे समर्थं नापूर्वोपजनने । सिद्धं निमित्तं नैमेितिकस्य विशेषानुग्रह1 कुरुते नापूर्वमुत्पादयतीति ॥

 धर्मी चानेकधर्मस्वभावस्तस्य चाध्वभेदेन धर्माः प्रत्यवस्थिताः । न च यथा वर्तमानं व्यक्तिविशेषापन्नं द्रव्यतोऽस्त्येवमतीतमनागतञ्च । किं2 तर्हि ? स्वेनैव व्यङ्ग्येन स्वरूपेणानागतमस्ति । स्वेन चानुभूतव्यक्तिकेन

[ विवरणम् ]

 किं च, अभावज्ञानात् कुशला अपि फलाय नाभिसमीहेरन्3 । अभावाविशेषाञ्च कारणनियमो नाकल्पिष्यत । (न) सर्वतो वा सर्वमुदपत्स्यत । नापि कारणमुपादास्यत । उपादाने वा तैलार्थी सैकतमप्युपादास्यत किं तिलैरनेकायासनिष्पाद्यैः । अत्यन्तासदपूर्वं चेदमजनिष्यत । न चैतद् दृष्टम् ॥

 तस्मात्तद्भोगभागीयमपवर्गभागीयं वा कर्म निमित्तं कारणं विद्यमानस्यैव तस्य फलस्य वर्तमानीकरणे समर्थं नापूर्वोपजने । सिद्धं हि स्वेनात्मना निमित्तं स्थाली क्षीरघर्मातञ्चनादि दध्यादिकस्य नैमित्तिकस्य कर्कशतरभावाद्यभिव्यक्तिद्वारेण विशेषानुग्रहं कुरुते-नापूर्वमेव दधेि उत्पादयति तथेह भोगभागीयादिकर्म ॥

 किं च, धर्मी चानेकधर्मस्वभावोऽनेकधर्मात्मा । यथा कनकपिण्डः शान्तोदिताव्यपदेश्यरुचककुण्डलादिधर्मात्मकः । तस्य धर्मिणः अध्वभेदेन अतीतादिलक्षणभेदेन धर्माः प्रत्यवस्थिताः ॥

 यथा वर्तमानं वस्तु व्यक्तिविशेषापन्नं कुण्डलादिव्यक्तिप्राप्तं द्रव्यतः कार्यरूपतः अस्ति व्यापाराधिरूढतया, नैवमतीतमनागतं च । किं तर्हि? स्वेनैव व्यङ्येन स्वरूपेण भविष्यता अनागतमस्ति । स्वेन चानुभूतव्यक्तिकेन अतिक्रान्तोपलब्धिकेन अतीतमस्ति


1.हर्ण

2.कथं

3. अत्र आदर्शकोशे इत उपरेि ‘बहिर्देशान्तरे।” इत्यादि वाक्यं लिखितम्।तस्यानन्वयात्, 9. पुटेम्यः पश्चात् लिखितं "अभावाविशष्षाञ्च” इत्यादि वाक्यं योजितम् ।