पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/378

पुटमेतत् सुपुष्टितम्
३३६
पातञ्जलयोगसूत्रभाष्यविवरणे

[ भाष्यम ]

स्वरूपेणातीतमिति । वर्तमानस्यैवाध्वनः स्वरूपव्यक्तिरिति. न सा भवत्यतीतानागतयोरध्वनोः । एकस्य चाध्वनः समये द्वावध्वानौ धर्मिसमन्वागतौ[न]भवत एवेति नाभूत्वा भावस्त्रयाणामध्वनामिति ॥ १२ ॥

[ विवरणम् ]

{{gap}}वर्तमानस्यैव त्वध्वनः स्वरूपतो व्यक्तिरिति न सा व्यक्तिः भवत्यतीतानागतयोरध्वनोः । एकस्य चाध्वनः समये कालेद्वावध्वानौ धर्मिसमन्तागातौ विरोधात् न भवत एवेति । तथा चोक्तोऽध्वसंकरपरिहारः ॥  यस्य पुनरतीतमनागतं च लक्षणं स्वरूपेण नास्ति, तस्य धर्माणामध्वमेदो न प्राप्नोति । कथम् ? न हि तस्य घटो भविष्यन्नतीतो वा विद्यते । न हि कपालानि पिण्डो वा घटः । इत्येकस्य वर्तमानस्यैवाध्वनः. समये त्रयाणामध्वनां धर्मत्वेन समागमः स्यात् । अतश्च वर्तमान एव घटोऽतीतोऽनागत इतेि चोच्येत पिण्डकपालयोरघटत्वात मृदि च घटस्याभावाद्भविष्यति घटोऽतीतो घट इति च पिण्डकपाले निरुच्येयाताम् । तथा च विवक्षतो गौरप्यश्च इति स्यादश्वोऽपि गौरिति ॥

 अथोच्येत, घटस्य प्रगभावप्रध्वंसाभावावतीतानागतत्वेनाभिधीयेते इति । ततोऽप्येष पापीयानभ्युपगमः । तत्र युक्तमपि गौरश्च इति वस्तुत्वादेतयोः । न त्विह वस्तुवाचिना शब्देन घटोऽतीतोऽनागत इति चाभावस्याभिधानं युज्यते स[त्य]त्ववादिनाम् ॥

 नापि नियम उपपद्यते । घटेनैव व्यपदिश्यते, घटोऽतीतो घटो भविष्यतीति च । न पुनः कुलालादिभिरपदिश्यते कुलालादयोऽतीता भविष्यन्ति वेति ।

 अथ घटस्यैव तत्रानुपलभ्यमानत्वादिति चेत्-न-हस्तिशार्दूलादीनामपि तत्रानुपलम्भे व्यपदेशप्रसङ्गात् । अथोपलब्धपूर्वस्यैव व्यपदेश इति चेत-न- घटक्रियादिष्वपि प्रसङ्गात् ॥

 अथ घटस्य तेन क्रियाद्यभाव इति चेत्-न-अभावस्य सम्बन्धविशेषानुपपत्तेः । न हि समवायलक्षणः प्राप्तिलक्षणो वा सम्बन्धो भावाभावयोरवकल्पते।। येनासौं घटस्य अभावो न पुनः क्रियादीनाम्। अन्यतरसम्बन्धे च अभावस्य वस्तुत्वप्रसङ्गः । अथ वस्त्वेवेति चेत्, सिद्धस्तर्हि भविष्यन्नतीतश्च पदार्थः॥