पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/380

पुटमेतत् सुपुष्टितम्
३३८
पातञ्जलयोगसूत्रभाष्यविवरणे

[ भाष्यम् ]

 सर्वमिदं गुणानां संनिवेशाविशेषमात्रमिति परमार्थतो गुणात्मानः । तथा च शास्त्रानुशासनम्-

  "गुणानां परम रूपं न दृष्टिपथमृच्छति ॥

  यतु दृष्टिपथं प्राप्तं तन्मायेव सुतुच्छकम्” इति ॥ १३ ॥ यदा तु सर्वे गुणाः, कथमेकः शब्द एकमिन्द्रियमिति--

[ सूत्रमू ]

परिणामैकत्वाद्वस्तुतत्त्वम् ॥ १४ ॥

[ विवरणम्]

लोकप्रत्ययविषयीभूतस्वभावाः । अतीतानागताः सूक्ष्मात्मानः लोकप्रत्ययविषयभावमप्राप्ताः षडविशेषस्वरूपाः अस्मितादिस्वभावाः । ततश्च व्यक्तात्मानः षोडशविकाराः कार्यकारणलक्षणाः ॥

 सर्वमिदम् आध्यात्मिकं कार्यकारणरूपं व्यक्तात्मकं, यच्च सूक्ष्ममविशेषलक्षणमस्मितादि, यच्च लिङ्गमात्रं सूक्ष्मत्वाविशेषात्, सर्वमिदं जगत् गुणानां सत्त्वरजस्तमसां प्रख्याप्रवृत्तिस्थितिशीलानां सन्निवशविशेषमात्रामति परमार्थतो गुणात्मानः गुणस्वभावाः|

 तथा च शास्त्रानुशासनम्-गुणानां परमं रूपं स्वं परमार्थरूपमनपायोपजनात्मकमेकैकस्य । तच्च न दृष्टिपथमृच्छति । न दृष्टिगोचरीभवति । यत्तु दृष्टिपथं प्राप्तं गुणापरिमर्देन विषमभावकृतसन्निवेशलक्षणं, तन्मायेव न तु मायैव, असारत्वात्तु मायावदिति । सुतुच्छकम् अत्यल्पमेकदेशमात्रपरिणामत्वात् साम्यावंस्थानां गुणानाम् ॥ १३ ॥

 यदा सर्वे गुणाः पृथिव्यादयः, तदा कथमेकः शब्दः शङ्खादिजनितः । एकमिन्द्रियं श्रेोत्रादिकमित्येकबुद्ध्यालम्बनत्वं भवेत् । न खलु भवितव्यम् । त्रिगुणत्वेन हि कारणेन त्रय इति प्रत्ययः स्यात् । एवमिन्द्रियाणां च प्रत्येकं त्रित्वम् । तथा च नियमो न प्राप्नोति । न हि ग्राह्यत्वमेकस्यैव शब्दस्य, ग्राहकत्वं चैकस्य श्रोत्रस्य, इति नियम उपकल्पते । तथा स्पर्शादिषु, त्वगिन्द्रियादिषु च योज्यम्। नियमश्च दृश्यते । कारणं तत्र वचनीयमित्याह-}}परिणामैकत्वाद्वस्तुतत्वम्