पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/383

पुटमेतत् सुपुष्टितम्
३४१
कैवल्यपादः चतुर्थः

[ भाष्यम् ]

मिदं स्वमाहात्म्येन वस्तु कथमप्रमाणात्मकेन विकल्पज्ञानबलेन वस्तु 1स्वयमुपगृह्य तदेवापलपन्तः श्रद्धेयवचनाः स्युः ॥ १४ ॥}}

कुतश्चैतदन्याय्यम्-

                सूत्रम्

 वस्तुसाम्ये चित्तभेदात्तयो र्विविक्त्तः पन्थाः ॥ १५ ॥

[ विवरणम् ]

ते स्वयं तथेति अभ्युपगम्य स्वमाहात्म्येन प्रत्युपस्थितं वस्तुं कथम- प्रमाणात्मकेन विकल्पज्ञानबलेन वस्तु स्वयमुपगृह्य अभ्युपगम्य तदेव अभ्युपगतं अपलपन्तः इदमित्यभ्युपेत्य इदं नास्तीत्यपह्नुवानाः श्रद्धेयवचनाः स्युः । न हि स्वानुभवप्रत्याख्यायिनः श्रद्धानीयवचनविस्तारा भवितुमर्हन्ति ॥

 तत्र विज्ञानव्यतिरेकेणार्थो नास्तीति प्रत्यक्षविरोधिनी प्रतिज्ञा । संवेदनीकारकं विज्ञानं प्रतीयामः । पृथुबुध्नाद्याकारमर्थं प्रतिपद्येमहि। ग्राहकं च विज्ञानमवभासकं, अवभासनीयश्चार्थः । स्वलक्षणभेदेनार्थज्ञानयोरुपलभ्यमानत्वान्नाव्यतिरेकगन्धोऽपि । ततश्च व्यतिरेकेणानुपलभ्यमानत्वादित्यसिद्धो हेतुस्तव ॥

 न च ज्ञानस्यैव पृथुबुध्नाद्याकारता । ज्ञानस्यैकस्यावभास्यावभासकत्वानुपपत्तेः प्रदीपस्येव केवलस्य । भिन्नयोः प्रदीपयोः प्रकाश्यप्रकाशकत्वानुपलम्भादेकस्य च स्वात्मनि प्राप्त्यसम्भवात्, एवं ज्ञानस्य ॥

 अपिचानैकान्तिकश्व बुद्धेन प्रतिपक्षवादिना च । न चासौं नास्तीति शक्यं प्रतिज्ञातुं, यं प्रति सिसाधयिषसि, स चेत्तद्विज्ञानव्यतिरिक्तः, तथा घटादिरपि सिध्यति ॥

 स्वप्नज्ञानमपि उपलब्धार्थविषयत्वात् न निरालंबनम् । प्रतिज्ञायाः प्रत्यक्षविरोधो लोकविरोधश्व । सर्व ज्ञानं सालम्बनं, ज्ञानत्वात्, प्रतिवादिदुष्टवाक्यज्ञानवत्, स्ववाक्यगुणज्ञानवच्च । ततश्च ज्ञानत्वादीनां निरालंबनत्वहेतूनामेवमादिभिरनैकान्तिकता ॥ १४ ॥

 कुतचैतदन्याय्यं गृह्ममाणं वस्तु नास्तीति ? वस्तुसाम्ये चित्तेमदात्तयोर्विविक्त्तः पन्थाः । बहुचित्तालम्बनीभूतं अनेकचित्तविषयीभूतं एकं वस्तु


1. स्वरूपमुत्सृज्य   2. -र्विभक्तः