पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/385

पुटमेतत् सुपुष्टितम्
३४३
कैवल्यपादः चतुर्थः

 

[भाष्यम् ]

 साङ्ख्यपक्षे पुनर्वस्तु त्रिगुणं चलं च गुणवृत्तमिति धर्मादिनिपित्तापेक्षं चितैरभिस्संबध्यते । निमित्तानुरूपस्य च प्रत्ययस्योत्पद्यमानस्य तेन तेनाऽत्मना हेतुर्भवति । केचिदाहुः-ज्ञानसहभूरेवार्थों भोग्यत्वात् सुखादिवादिति । त एतया द्वारा साधारणत्वं बाधमानाः पूर्वोत्तरक्षणेषु वस्तुरूमेवापह्नुते ॥ १५ ॥

[ विवरणम् ]

 सुखज्ञानालम्बनीभूतं पुत्रादिवस्तु न तज्ज्ञानपरिकल्पितम्। तदुरुद्धानेकचितोपरञ्जकत्वात्, वादिप्रतिवदिप्रतिज्ञागुणदोषतदाभासवत् । वादिप्रतिवादिप्रभृतीनामपि विज्ञानमात्रत्वे साध्यसाधनादिव्यवहारविलोपः स्यात् ॥  अथ स्वविज्ञानव्यतिरेकेण तेषां ज्ञानरूपाणामेव पृथक्त्वमिति चेत्-अस्तु । तदेव वस्तु ज्ञानान्तरविषयत्वादर्थान्तरं सिद्धम् । संज्ञामात्रे विप्रतिपत्तिः । विषयविषयभेदस्तु न साध्यः । तस्मान्नानयोः संकरगन्धोऽपीति ॥  अथ वस्तुनि स्वरूपप्रतिष्ठेऽपि सुखादिभिन्नप्रत्ययालम्बनता न समीचीनरूपेति चेत्-अत्रोच्यते-वस्तु पुनस्त्रिगुणं चलं गुणवृत्तमिति धर्मादिनिमित्तं चापेक्ष्य चित्तैः सुखदुःखादिभेदरूपेण अभिसंबध्यते परिण्मात्वादनेकशक्तित्वाञ्च ॥  धर्मादिनिमित्तानुरूपस्य चोत्पद्यमानस्य प्रत्ययस्य तेन तेन निमित्तेन आत्मना हेतुर्भवति । सत्वात्मना धर्मादिनिमित्तापेक्षं पुत्रादिवस्तु सुखहेतुर्भवति । रजआत्मना त्वधर्मनिमित्तापेक्षं दुःखहेतुर्भवति । तमअत्मना त्वविद्यापेक्षं तदेव वस्तु मोहहेतुर्भवति । सत्तामात्रात्मना सम्यग्दर्शनापेक्षं तदेव माध्यस्थ्यज्ञानहेतुर्भवति ॥

 केचिदाहुः एषमेव बौद्धानामन्यतमे बाह्यमर्थमभ्युपगच्छन्त आहु:- ज्ञानसहभूरेवार्थः, यथा विज्ञानं प्रतिक्षणं धर्मिशून्यं उत्पद्यते विनश्यति च, तथा सहँव ज्ञानेनार्थो विज्ञायते विनश्यति च, भोग्यत्वात्, सुखादिवत् । तद्यथा-सुखदु:खादिरूपं भोग्यं विज्ञानसहोत्पतिविनाशमसाधारणम्, एवं घटादिरर्थोऽपि विज्ञानसमानसमयजन्मविनाश एव, भोग्यत्वादिति ॥

 तेऽपि तथैव विज्ञानवादिवत् साधारणत्वं अनेकसुखादिचित्तालम्बनत्वं बाधमानाः पूर्वोत्तरक्षणेषु स्वकीयविज्ञानोत्पतेः पौरस्येषु क्षणेषु पाश्चात्येषु च वस्तु नास्तीति वस्तुस्वरूपमेवापह्नुवते