पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/387

पुटमेतत् सुपुष्टितम्



३४५
कैवल्यपादः चतुर्थः

[ भाष्यम् ]

 मेव तेनापरासृष्टमन्यस्याविषयीभूतभप्रमाणकमगृहीतस्वभावकं केनचित्तदानीं किं तत्स्यात् । संबध्यमानं1 वा पुनश्चित्तेन कुत उत्पद्येत । ये चास्यानुपस्थिता भागास्ते चास्य न स्युः । एवं नास्ति पृष्ठमित्युदरमपि 2न स्यादेव ।

[ विवरणम् ]

नेिरुद्धे वा विनष्टे वा तेन प्रमाणचित्तेन अपरामृष्टं च अन्यस्य चाविषयीभूतं एकचित्ततन्त्रतयैव, तदा तत् वस्तु अप्रमाणकमगृहीतस्वभावं प्रप्राणचित्तनिरोधादेव तदानीं किं तत् स्यात्। न हि किंचिदपि स्यात्। श्वित्तप्रमाणकं तत् तदभावे न तेन भवितव्यम् ॥

 ननु च यथा तत्प्रमाणचित्तं निरुध्यते, तथैव तदपि क्षणिकत्वान्निरुद्धमेव । किं तत्राभिधानीयं स्यात् । उच्यते-न-व्यवहारविलोपान्नियमानुपपत्तेश्च । अग्निरयं मास्प्राक्षींः, इमं गृहाण, अदः प्रदेहीति व्यवहारो विलुप्येत । एकचित्तसहक्षयत्वाद्वस्तुनः ॥

 तत्सन्ततिजमत्यन्तसदृशं व्यवहारप्रतिपत्तये भवेदिति चेत्---अत्रापि तत्सन्तानादेव तत्समानेनान्येनानुभवनीयं परप्रमाणस्य च तद्विषयभूतमिति को नियच्छेत् । न हि नियमहेतुरास्ति ।

 अपि च एकचित्ततन्त्रत्वाद्व्यवहारवेलायामन्यत(न)रेदंप्रत्ययविषयालम्बनो नान्यत(न)रप्रत्ययो युज्यते । न हि खल्वपि वहुचित्ततन्त्रं वस्तु । ततश्च गृहाणेदं प्रयच्छाद इति कथं व्यवहरेमहि ॥

 नाप्येवंदर्शनशालिनः शिष्याचार्योपदेशप्रदानादिभिरन्योन्यं व्यवहरेरन् । तस्मान्न चैकचित्ततन्त्रं वस्तु । प्रमाणचित्तविनाशे तद्व्यग्रभावे वा अनवधृतस्वभाववाद्वस्तुन: ॥

 संबध्यमानं वा वस्तु पुनश्चित्तेन कुत उत्पद्येत । न कुतश्चिदुत्पत्तिस्रुपपद्यते तत्सन्तानादिति हि प्रत्यवोचाम ॥

 किंञ्च, अस्य वस्तुनः अनुपस्थिताः एकस्य प्रत्ययस्याविषयीभूता[ये] भागास्तेचास्य न स्यु: । एको हि वस्तुभागो विषयीभूतश्चित्ततन्त्रो नान्यः इति । नास्ति पृष्ठमिति उदरमपि अभिमुखीभूतं न स्यादेव ॥


1.

2. न गृह्येत ।