पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/388

पुटमेतत् सुपुष्टितम्
३४६
पातज्ञलयोगसूत्रभाष्यविवरणे

[ भाष्यमू ]

तस्मात् स्वतन्त्रोऽर्थः सर्वपुरुषसाधारणः स्वतन्त्राणि च चित्तानि प्रतिपुरुषं प्रवर्तन्ते । तयोः संबन्धादुपलब्धिः पुरुषस्य भोग इति ॥ १६ ॥

[सूत्रम्]

तदुपरागापे क्षत्वाच्चित्तस्य वस्तु ज्ञाताज्ञातम् ॥ १७॥

[ भाष्यम् ]

अयस्कान्तमणिकल्पा विषया अयःसधर्मकं चित्तमभिसंबध्योपरञ्जयन्ति । येन च विषयेणोपरक्तं चित्तं स विषयो ज्ञातः ततोऽन्यः पुनरज्ञातः । वस्तुनो ज्ञाताज्ञातस्रूपत्वात् परिणांमि चित्तम् ॥ १७ ॥

[ विवरणम् ]

 अथापि काकतालीयन्यायेन भूयांसि चित्तानि युगपदुत्पद्येरन् तद्विषयं च वस्तु तत्समानकालमुन्मज्जतीति, तदेतेनैव पृष्ठोदराभावनिदर्शनेन प्रत्याख्यायि । नापि काकताळीयवृत्तान्तेनानादिसमयाधीनो व्यवहारसागर उत्तीर्यंते । सर्वे च विज्ञानदर्शनश्लाधिषु दोषा इहापि समाना एव ॥

 तस्मात् आह--स्वतन्त्रोऽर्थः सर्वपुरुषसाधारणः यस्मिन्नवस्थिते समस्तलोकव्यवहार उपकल्पिष्यते । स्वतन्त्राणि च चित्तानि प्रतिपुरुषं प्रवर्तन्ते । तयोश्च अर्थचित्तयोः सम्बन्धादुपलब्धिः पुरुषस्य भोगः । तस्माद्भोक्ता पुरुषः चित्तं करणम् अर्थो विषयः कर्मभूत इयेतेषां भोक्तृकरणकर्मणां विविक्त्तः पन्थाः ॥ १६ ।।

 कथं चित्ततद्विषययोः सम्बन्धात् पुरुषस्य भोग इत्याह-यद्वा, यस्य चित्तव्यतिरेकेण वस्तु नास्ति, चित्ततन्त्रमेव वा वस्तु, तस्य ज्ञाताज्ञातविषयत्वमनुपपन्नमित्याह--तदुपरागापेक्षत्वाच्चित्तस्य वस्तु ज्ञाताज्ञातम् । तेन विषयेण चित्तस्योपरागः तं प्रति अपेक्षा यस्य [तत् ] चित्तं तदुपरागापेक्षम्, तस्य भावः तदुपरागापेक्षत्वं तस्मात् तदुपरागापेक्षत्वाचित्तस्य वस्तु ज्ञाताज्ञातम् ।।


1. -क्षित्वा