पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/390

पुटमेतत् सुपुष्टितम्
३४८
पातञ्जलयोगसूत्रभाष्यविवरणे

[ भाष्यम् ]

 यदि चित्तवत्प्रभुरपि पुरुषः परिणमेत् ततस्तद्विषयाश्चित्तवृत्तयः शब्दादिविषयवज्ज्ञाताज्ञाताः स्युः । सदाज्ञातत्वं तु मनसस्तत्प्रभोः पुरुषस्यापरिणामित्वमनुमापयति ॥ १८ ॥

[ विवरणम् ]

 अपि च, भवति हि कदाचिज्ज्ञातः सन्नर्थो ज्ञात इति [प्रतीयमानः] । चित्तवृतिप्रत्यक्षाग्राह्मत्वे ‘ [तत] नोपपद्यते । न च फलद्वारेणानुमातुं तत्र शक्यते फलस्यानवधारणात् ॥

 तस्मात् संशयस्य चाविषयत्वात्, पृथक् च विषयाचित्तवृत्तीनां स्वरूपमात्रेणैव स्मर्यमाणत्वात्, सर्वदा सर्वः प्रत्यक्षाश्चित्तवृत्तयः । तथा प्रतिपत्तुरवभासकत्वात् , करणत्वात्, अभिव्यञ्जकत्वाच्च, प्रदीपादिवत् । न तु चक्षुरादिभिरनैकान्तिकत्वम् । तत्रापि प्रत्यक्षग्राह्यत्वात् । यथा प्रदीपाद्यालोकविशिष्टा घटादयो गृह्मन्ते, तथा श्रोत्नादिस्वालोकविशिष्टा एव शब्दादयो गृह्मन्ते ॥

 न च विविच्याग्रहणादप्रत्यक्षत्वमिति शक्यं वक्तुम् । यथा प्रदीपयोः परस्परव्यतिभिन्ना रश्मयः, न चास्यायं रश्मिरस्य चायमिति विविच्यते, न च तावता तेषामप्रत्यक्षत्वम् , [एवं] इहापि चक्षुरादीनां तुल्यजातीयबाह्यालोकादिव्यतिषङ्गाद्विविच्याग्रहणम्। न च तावन्मात्रेण तेषामप्रत्यक्षत्वम्। यो हि प्रत्यक्षावसीयमानचित्तवृत्यप्रलापं करोति, नूनमसावात्मानमप्यपलपेदिति सर्वोपलब्धेश्चित्तवृत्यधीनत्वात् रूपोपलब्धेरिवालोक(प्रत्यायकं तत्त्वम्) प्रत्ययाधीनत्वम । तस्मादाह--सदा ज्ञाताश्चित्तवृत्तयः पुरुषस्येति ॥

 यच्चैतत् सदा ज्ञातविषयत्वम्, तत्प्रभोः पुरुषस्यापरिणामत्वात् । निल्योपलब्धृस्वरूपप्रयुक्तं हि तदिति । यदि चित्तवत् प्रभुरपि पुरुषः परिणमेत, ततस्तद्विषयाश्चित्तवृत्तयः चित्तस्येव शब्दादिविषयाः, ज्ञाता अज्ञाता अपि स्युः ॥

 यत्तु ज्ञाताज्ञातं शब्दादिविषयजातं, तत् परिणामिनश्चित्तस्य परिणामापेक्षं द्रष्टव्यम् । तथैवेन्द्रियाणामपि परिणामापेक्षमेव ज्ञाताज्ञातविषयत्वं दृश्यते । न च तथा चित्तवृत्तीनामन्यतमासामपि ज्ञातत्वमज्ञातत्वं च । नित्यतस्तज्ज्ञाता एव चित्तवृत्तयः । तस्माद्यद्वृत्तिरूपेण सदा ज्ञातत्वं मनसः तत् प्रभोः पुरुषस्यापरिणामित्वमनुमापयति ॥