पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/391

पुटमेतत् सुपुष्टितम्
३४९
कैवल्यपादः चतृथः

[ भाष्यम् ]

स्यादाशङ्का-चित्तमेव स्वाभासं विषयाभासं च भविष्यतीत्यग्निवत्


[ सूत्रम् ]

न तत्स्वाभासं दृश्यत्वात् ॥ १९ ॥

[ भाष्यम् ]

 यथेतराणीन्द्रियाणि शब्दादयश्च दृश्यत्वान्न स्वाभासानि, तथा मनोऽपि प्रत्येतव्यम् ।

[ विवरणम् ]

 अपरिणामी पुरुष इति प्रतिज्ञा । सदा ज्ञातविषयत्वादिति हेतुः । वैधर्म्येण चित्तमिन्द्रियाणि च दृष्टान्तः । उपलब्धुश्च विषयिणः प्रकृतत्वात् सदा ज्ञातविषयत्वप्रतिषेधाय मुक्तात्मवदिति दृष्टान्तो नोपपद्यते । मुक्तस्याविषयित्वात् ॥ १८ ॥

{{gap}}स्यादाशङ्का-चित्तमेव स्वाभासं विषयाभासं च भविष्यतीति । ग्राह्यं ग्राहकं चेति । स्वसंविदिताकारा एव हि वृत्तयः । यथा प्रदीपः प्रकाशयति घटादीनात्मानं च । किं पुरुषेण चित्तवृत्त्युपलम्भिना चित्तव्यतिरिक्तेन कल्पितेनेति ॥

 अत्रेच्यते-न तत् स्वाभासं दृश्यत्वात् । यथेतराणीन्द्रियाणि श्रेात्रादीनि विषयाश्व शब्दादयः । न स्वाभासानेि इन्द्रियाणि । नापि स्वाभासाः शब्दादयः । दृश्यत्वात् । तथा मनोऽपि प्रत्येतव्यम् ! न स्वाभासं चित्तं दृश्यत्वादिति प्रतिपत्तव्यम् ।

 ननु च अग्निवदेव स्वाभासत्वं विषयाभासत्वं च भवतु, यथैव घटादयः प्रकाश्याः स्वरूपेपलम्भनार्थमालोकान्तरमपेक्षन्ते, न तथा प्रदीपः । यथा प्रदीपः स्वाभासो विषयाभासश्च । तथा मनोऽप्यवभासकत्वादेवं भवतु किमात्मना? न हि प्रदीपप्रतिपत्तये प्रदीपान्तरमाददते लौकिकाः ॥

 यदि चोपादयेरन् अनवस्थैव स्यात् ! एवं विज्ञानस्यापि व्यतिरिकेन ग्राहत्वे तस्य चान्येन ग्रहणं तस्य चान्येनेत्येवं प्रसज्येत । किं च विज्ञानस्यावभासात्मकत्वात् ग्राहकस्याप्यवभासरूपत्वात् न परस्परोपकार्योपकारकभावः । तद्यथा प्रदापयोर्द्वयोः । तस्मात् कल्पितोऽपि विज्ञानस्य ग्रहीता अनर्थक इति, भवतु ज्ञानं स्वाभासं पराभासं चेति ॥