पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/394

पुटमेतत् सुपुष्टितम्
३५२
पातञ्जलयोगसूत्रभाष्यविवरणे



[ भाष्यम् ]

 न चैकस्मिन् क्षणे 1स्वपरोभयावधारणं युक्तं, 2क्षणवादिनो यद्भवनं सैव क्रिया, तदेव च कारकमित्यभ्युपगमः ॥ २० ॥

 स्यान्मतिः-स्वरसनिरुद्धं चित्तं चित्तान्तरेण समनन्तरेण गृह्यत इति--

[ सूत्रम् ]

चित्तान्तरदृश्ये बुद्धिबुद्धेरातिप्रसङ्गः स्मृतिसंकरश्च ॥ २१ ॥

[ भाष्यम् ]

 अथ चित्तं चेच्चित्तान्तरेण गृह्येत, बुद्धिबुद्धिः केन गृह्यते, साऽप्यन्यया साऽप्यन्ययेत्यतिप्रसङ्गः । स्मृतिसंकरश्च, यावन्तो बुद्धिबुद्धी-

[ विवरणम् ]

 अथोभयपरिच्छित्तरेकैवेति चेन्न, निरवयवत्वात् परिच्छित्तेः । न हि निरवयवायाश्चित्तवृत्तेः प्रदीपवदनेकावभासकत्वे युक्तम् । अवयवभेदात्तु प्रदीपस्यानेकप्रकाशकत्वं संभवति । न तु ज्ञानस्य सावयवत्वं परैरभ्युपेयते ॥

 किं च, ज्ञानमेकमेकस्मिन् क्षणे उभयमवधारयतीति चाभ्युपगमे क्रियाकारकभेदप्रसङ्गः । यदुभयावधारणं सा क्रिया । यदवधारयति तत् कारकम् । न चैकस्मिन् क्षणे स्वपरोभयावधारणं क्षणवादिनो युक्तम् । कस्मात् ? उक्तं हि क्षणिकत्वसिद्धये यद्भवनम् उत्पत्तिः सैव क्रिया तदेव च कारकमित्यभ्युपगमः । क्रियाकारकभेदे च क्षणभङ्गभङ्गः स्यात् । कारकेण हि क्रियाक्षणमवस्थानीयम् ॥ २० ॥

 स्यान्मतिः कस्यापि-स्वरससन्निरुद्धं चित्तं चित्तान्तेरण गृह्यते इति भावेन विनष्टं भङ्गुरतरं चित्तं चित्तान्तरेण समनन्तरेण संजायमानेन गृह्यत इति, अथापि नित्यावस्थितपुरुषपरिकल्पना निरर्थकैव । अत्रोच्यते— चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसङ्करश्च

 यदि चित्तं चित्तान्तरेण स्वरसनिरुद्धं पौरस्त्यं पाश्चात्येन जायमानेन समनन्तरेण गृह्येत , बुद्धिबुद्धिः घटविषया बुद्धिः बुद्धिरुच्यते, तद्विषया तु बुद्विबुद्धिः, सा केन गृह्यते व्यवस्थितग्राहकाभावात् । साऽप्यन्यया ग्रहीतव्या साऽप्यन्ययेत्यतिप्रसङ्गः


1. स्वपररूपा 2. क्षणिक