पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/396

पुटमेतत् सुपुष्टितम्
३५४
पातञ्जलयोगसूत्रभाष्यविवरणे

[ भाष्यम् ]

तथा स्कन्धानां महानिर्वेदाय विरागायानुत्पादाय प्रशान्तये गुरोरन्तिके ब्रह्मचर्यं चरिष्यामीत्युक्त्वा सत्त्वस्य पुनः सत्त्वमेवापह्णुवते । साङ्ख्ययोगादयस्तु प्रवादाः स्वशब्देन पुरुषमेव स्वामिनं चित्तस्य भोक्तारमुपयन्तीति। २१ ॥  कथम्-- {{c|सूत्रम्

चितेरप्रतिसंक्रमायास्तदाकाराष्पत्तौ स्वबुद्धिसंवेदनम् ॥ २२ ॥

[ भाष्यम् ]

अपरिणामिनी हि भोक्तृशक्तिरप्रतिसंक्रमा च परिणामिन्यर्थे प्रतिसंक्रान्तेव तद्वृत्तिमनुपतन्ती' ॥

[ विवरणम् ]

 तथा तेषामन्या विरुद्धकल्पना-स्कन्धानां महानिर्वेदाय विरागायानुत्पादाय प्रशान्तये गुरोरन्तिके ब्रह्मचर्यं चरामीत्युक्त्वा पुनस्तमेवाभ्युगतं सत्वस्य सत्त्व(साध्यसाधनसम्बन्ध)मपह्णुवते । विज्ञानमात्रं क्षणिक शून्यं चेति आत्मानमपलपन्ति । (नमभिसन्दधीमहि । तदेवं) साङ्ख्ययोगादयस्तु प्रवादाः । स्वशब्देन पुरुषमेव स्वामिनं चित्तस्य भोक्तारमभ्युपयन्ति इति ॥ २१ ॥

 कथं भोक्तारं स्वशब्देनैवाभ्युपयन्ति ? यतः चितेरप्रतिसंक्रमायास्तदाकारापतौ सत्यां स्वबुद्धिसंवेदनं भवति । चितिः चैतन्यं पुरुष इत्यर्थः । सा चापरिणामित्वात् अप्रतिसंक्रमा । तस्याः अप्रतिसंक्रमायाः अपि सत्याश्चितेः तदाकारापत्तिः । तदिति प्रकृतं चित्तं प्रत्याम्नायते तस्याकारापत्तिस्तदाकारापत्तिः । तस्याश्चितेस्तदाकारापत्तौ सत्यां स्वबुद्विसंवेदनं भवति । स्वस्य बौद्धस्य प्रत्ययस्योपलब्धिर्भवति । तदर्थमेव हि सा बुद्धिः शब्दादिप्रत्ययरूपेण परिणामते ॥

 तदेतत् प्रतिपादयति(प्रतीत्य)-अपरिणामिनी हि भोक्तृशक्तिः दृक्शक्तिः यथाव्याख्याता । अप्रतिसंक्रमा च सती परिणामिन् भोयर्थे बौद्धप्रत्यये प्रतिसंक्रान्तेव प्रत्ययिविषयत्वात्त् तद्वृत्तिमनुपतन्तीवानुपतन्ती । बौद्धः प्रत्ययो जायमान एव तस्याः कर्मतामापद्यते । तं बौद्धं प्रत्ययं वृत्तिमनुपतन्त्युपलभमाना भोक्तृशक्तिः ॥


 1. -तति ।