[ भाष्यम् ]
तस्याश्च प्राप्तचैतन्योपग्रहस्वरूपायां बुद्धिवृत्तेरनुकारमात्रतया बुद्धिवृत्तविशिष्टा हि 'ज्ञवृत्ति'रित्याख्यायते । तथा चोक्तम् --
" न पातालं नो विवरं गिरीणां
नैवान्धकारः कुक्षयो नोदधीनाम् । गुहा, यस्यां निहितं ब्रह्म शाश्वतं बुद्धिवृत्तिमविशिष्टां कवयो वेदयन्ते ॥" इति ॥ २२ ॥
अतश्चैतदभ्युपगम्यते --
[ सुत्रम् ]
द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम् ॥ २३ ॥
[ विवरणम् ]
तस्याश्च प्राप्तचैतन्योपग्रह[स्व]रूपायाः प्राप्तं चैतन्येपग्रहरूपं पुरुषोपप्रहरूपं यया बुद्धिवृत्या समासादितपावकोपग्रहरूपतप्तलोहपिण्डवत् दृशिकर्मत्वादेव अनुकारमात्रतया, बुद्धिवृत्तिसारूप्यमात्रतया । बुद्धिवृत्यविशिष्टा ज्ञवृत्तिरिति । ज्ञ एवोपलब्धिरेव वृत्तिरिति आख्यायते ।। **वृत्तिसारूप्यमितरत्र' इति हि व्याख्यातम् । तथा “प्रत्ययाविशेषो भोगः' इति प्रख्यापितम् ॥
भोक्तृभोग्यभेदे च सति चित्ताकारापतिरूपपद्यते । न चासति व्यतिरिक्ते भोक्तरि चित्तस्यैव दृष्टृदृश्योभयाभासत्वमकस्मादुपकल्पते । तस्मात् सुष्टूच्यते-'साङ्ख्ययोगादय एव पुरुषं स्वशब्देनाभ्युपयन्ति' इति । अन्ये तु शब्दान्तरेणोपयन्तोऽपि तत एव बिभ्यति ॥
तथा चोक्तम्-बुद्धिवृत्यनुकारमात्रतया बुद्धावेव ज्ञवृतिरुपलभ्यते, नान्यत्रेति । न पातालं नो विवरं गिरीणां नैवान्धकारः कुक्षयो नोदधीनाम् , एवमादीनि न गुहा । यस्यां गुहायां निहितं ब्रह्म शाश्चतं सा गुहा, न पाताळादीनि । कस्यां पुनर्गुहायां निहितमित्याह-बुद्धावेव गुहायां वृत्तिम् आत्माख्यां ब्रह्माख्याम् अविशिष्टाम् अपृथग्भूतां बुद्धिवृत्यविशिष्टाम् वेदयन्ते विवेकिनः ॥ २२ ॥
1. ज्ञान 4.कारं 2. राख्या 5. यो. सू. 1-4. 3. न च 6. यो. स. 3-35.