पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/399

पुटमेतत् सुपुष्टितम्
३६७
कैवल्यपादः चतृथैः

[ भाष्यम् ]

अपरे चित्तमात्रमेवेदं सर्वं नास्ति खल्वयं गवादिर्घटादिश्च 'स्वाकारेण लोक इति । अनुकम्पनीयास्ते । कस्मात् ? अस्ति हि तेषां भ्रान्तिबीजं सर्वरूपाकारनिर्भासं चित्तमिति । समाधिप्रज्ञायां प्रज्ञेयोऽर्थः प्रतिबिम्बीभूतः °तस्यामालम्बनीभूतत्वादन्यः । स चेदर्थश्चित्तमात्रं स्यात्, कथं प्रज्ञयैव प्रज्ञारूपमवधार्येत । तस्मात् प्रतिबिम्बीभूतोऽर्थः प्रज्ञायां येनावधार्यते, स पुरुषः । इत्येवं ग्रहीतृग्रहणग्राह्यस्वरूपचित्तभेदात् त्रयमेप्यतञ्जातितः प्रविभजन्ते ते सम्यग्दर्शिनस्तैरधिगतः पुरुषः ॥ २३ ॥


[ विवरणमू ]

 अपरे बौद्धाः चित्तमात्रमेवेदं सर्वम् , नास्ति गवादिर्घटादिश्च स्वाकारेण विशिष्टः सर्वेषां प्रत्ययस्य साधारणो लोकः इति स्वानुभवमप्यपलपन्ति । ते एवं भ्रान्ताः सुकुमारतरबुद्धयो वैनाशिका अनुकम्पनीयाः ॥


 कस्मात् ? अस्ति हि तेषां भ्रान्तिबीजं सर्वरूपाकारनिर्भासं चितमिति । सनिमित्ता हि तेषां भ्रान्तिः न लोकायतिकानां शून्यवादिनामिव निर्बीजा । केवलजगद्वञ्चनार्थप्रवृत्तत्वात्तु नैतेष्वनुकम्पा कर्तव्या । तस्मायुक्तमुक्तं तेषां वराकाणां सबीजभ्रत्रान्तचेतसामनुकम्पनीयमिति ॥


 के पुनरभ्रान्ता इत्याह -समाधिप्रज्ञायामिति । समाधिप्रज्ञाग्रहणमभ्रान्तचित्तग्रहणार्थम् । विक्षिप्तचेतसो हि भ्रान्ताः । समाधिप्रज्ञायाम् अभ्रान्तायां विशुद्धायां विवेकवत्यां प्रसन्नगम्भीरतरायां प्रज्ञेयोऽर्थः प्रतिबिम्बीभूतः निर्मलदर्पणमण्डल इव तस्यां समाधिप्रज्ञायां करणभूतायाम् आलम्बनीभूतत्वादन्यः प्रज्ञातः सकाशाज्जातिस्वरूपक्रियादिभिरन्यः॥


फलकम्:Gap'''स चेत् अन्यः चित्तमात्रं स्यात् कथं प्रज्ञयैव प्रज्ञारूपमवधार्येत । स्वात्मनि क्रियाविरोधात् न हि कथञ्चिदवधार्येत । तस्मात् प्रज्ञायाः अन्योऽसावर्थः सः, यस्याः प्रज्ञायां प्रतिबिम्बीभूतोऽर्थो येनावधार्यते सः तस्याः प्रज्ञाया आलम्बनीभूताच्चार्थादन्यः कर्तृकारकभूतः । स पुरुषः ॥


 इत्येवं ये ग्रहीतृग्रहणग्राह्यस्वरूपभेदात् कर्तृकरणकर्मभेदोपपतेः, न हि निरवयवमेकमेवैकस्मिन् क्षणे वस्तु कर्तृ च कर्म च भवति, ततो ये त्रयमप्येतत् जातितः प्रविभजन्ते, ते सम्यग्दर्शिनः तैरधिगतः पुरुषः, प्राप्त इत्यर्थः । सामर्थ्यात्तु ज्ञात इति गम्यते ॥ २३ ॥

1. सकारणो   2. तस्याऽऽल