पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/40

पुटमेतत् सुपुष्टितम्

xxxvi

 परमार्थसाराभिधश्च ग्रन्थः पतञ्जलिस्वरूपेणावतीर्णादिशेषकृत इति तत्रैव ग्रन्थे अन्तिमश्लोके व्यक्तम्--

 "वेदान्तशास्त्रमखिलं विलोक्य शेषस्तु जगत आधारः ।

 आर्यापञ्चाशीत्या बबन्ध परमार्थसारमिदम् ॥" इति ॥

 तत्र च--

 "सत्यमिव जगदसत्यं मूलप्रकृतेरिदं कृतं येन ।

 तं प्रणिपत्योपेन्द्रं वक्ष्ये परमार्थसारमिदम् ॥"

इति उपक्रमे एव जगन्मिथ्यात्वं प्रतिज्ञातम् ॥

 "मृगतृष्णायामुदकं शुक्तौ रजतं भुजङ्गमो रज्ज्वाम् ।

 तैमिरिकचन्द्रयुगवत् भ्रान्तं निखिलं जगद्रूपम् ॥"

इति सदृष्टान्तम् उपपादितं च ॥

 "यद्वद्दिनकर एको विभाति सलिलाशयेषु सर्वेषु ।

 तद्वत् सकलोपाधिष्ववस्थितो भाति परमात्मा ॥"

इति च आत्मद्वैतमुपवर्णितम् ॥

 परमार्थरूपब्रह्मप्राप्तिमार्गभूतसम्यग्ज्ञानसाधनीभूतो योग इति चोक्तं तत्रैव--

 "परमार्थमार्गसाधनमारभ्याप्राप्य योगमपि नाम ।

 सुरलोकभोगभोगी मुदितमना मोदते सुचिरम् ॥" इति ॥

 जीवन्मुक्तिविवेके च विद्यारण्यश्रीचरणैः परमार्थसारान्तर्गतश्लोकद्वयं शेषकृतत्वेनानूदितम्--"एतदेवाभिप्रेत्य भगवान् शेष आह--

 "तीर्थे श्वपचगृहे वा नष्टस्मृतिरपि परित्यजन् देहम् ।

 ज्ञानसमकालमुक्तः कैवल्यं याति हतशोकः ॥" इति ॥

शेषोऽपि स्वकृतार्यापञ्चाशीत्यामिदमाह--

 हयमेधशतसहस्राण्यथ कुरुते ब्रह्मघातलक्षाणि ।

 परमार्थविन्न पुण्यैर्न च पापैः स्पृश्यते विमलः ॥" इति च ॥

 "तदुक्तं परमार्थसारे शेषनागेन" इत्यादिना ग्रन्थेन परमार्थसारं पदे पदे प्रमाणीकरोति लघुमञ्जूषायां भट्टनागेशः । "परमार्थसारविवरणे प्रपञ्चितमस्माभिः" इति परमार्थसारव्याख्यानमपि स्वेन कृतं ब्रवीति । भगवत्पतञ्जलि