पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/401

पुटमेतत् सुपुष्टितम्
३५९
कैवल्यपादः चतृथैः

 यदि यत्किंचित् परसामान्यमात्रम् उदाहरेद्वैनाशिकः, यदि तु वैनाशिकः संहत्यकारिणां गृहादीनां देवदत्तादिसंहतपरार्थत्वमिति व्यामोहादभिमन्यमानः कंचन विशिष्टं न परमिच्छेत्, एवं चेन्मन्वीत, स इदं वक्तव्यः--यः परः शरीरेन्द्रियविषयप्रत्ययानां सामान्यम्, उत सर्वे एवेति, किमेषामन्यतमः, किं वा कश्विदेवैतेभ्यो भिन्नजातीय इति ॥


 न तावत् सामान्यम् । न हि भोगापवर्गार्थेनार्थि सामान्यवस्तु वैनाशिकोऽभ्युपैति, स्वसमयविरोधात्। नापि शरीरादीनि समस्तानि भोगापवर्गाभ्यामर्थीनीति वाञ्छति । विज्ञानसन्ततेरेव भोगापवर्गार्थित्वाभिमानात् ॥


 न चापि ज्ञानसन्ततिरित्येकं वस्तु(सन्ततेः क्षणिकत्वम् !) न चापि सन्तानस्यावस्तुतया शशविषाणकल्पस्य भोगापवर्गाभ्यामर्थित्वम् । नापि शरीरेन्द्रियादीनामन्यतमत्वमिच्छति । विज्ञानव्यतिरितानाम् आत्मयसमये भोगापवर्गार्थित्वानभ्युपगमात् ॥


 नापि शरीरेन्द्रियाणां सङ्घातो नाम वस्तुतो भवतो विद्यते, येन चित्तं संहतपरार्थं प्रार्थयेथाः । अवस्तुनो हि कथमर्थित्वम् । नापि शरिरेन्द्रियादिभ्योऽन्य संहतभिन्नजातीर्य प्रतिजानीषे । यदि भिन्नजातीयं भोगापवर्गाभ्यामर्थवन्तमदृष्टं परिकल्पयेथाः, स एवास्माभिरुक्तः पर इति । तस्य च संहृतत्वे परत्वं दृष्टानात्मवन्नोपकल्पते । परिशेषात्तु असंहतो भोगापवर्गाभ्यामर्थी पर इति ॥


 किं चान्यत्-संहतपरार्थं चित्तमिति साधयतोऽर्थिनः संहतस्यान्यस्यानुपपत्तेः स्वार्थमेव चित्तमित्युक्तं भवति । तथा च सति भवतो दृष्टान्ताभावोऽभ्युपगमविरोधश्च । तथा मन्वानस्यान्यद्वाचि हृदये चान्यदनिशम्यकारित्वं चापतति । येन चक्षुरादिपरार्थत्वसाधनेन विरुद्धतादोषः प्रत्याख्यायि । तेषां विज्ञानपरार्थत्वमिति चेद्विज्ञानस्यापि संहतत्वात् परार्थत्वं प्रसाधितम् । अथ विज्ञानस्यापि क्षणिकत्वादसंहतत्वमित चेत्। न-तस्य व्यतिरिक्तदृश्यत्वात् धर्ममात्रानभ्युपगमाच्च क्षणिकत्वानभ्युपगमाच्चेत्येतदपि प्रत्यवोचाम ॥