पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/402

पुटमेतत् सुपुष्टितम्
३६०
पातञ्जलयोगसूत्रभाष्यविवरणे



[ भाष्यम् ]

  यतु किंचित्परसामान्यमात्रं स्वरूपेणोदाहरेद्वैनाशिकः'स सर्वः संहत्यकारित्वात् परार्थ एव स्यात् , यस्त्वसौ परो विशेषः स नं संहत्यकारी पुरुष इति ॥ २४ ॥

[ सूत्रमू ]

विशेषदर्शिन आत्मभावभावनानिवृत्तिः ॥ २५ ॥

[ भाष्यम् ]

 यथा प्रावृषि तृणाङ्कुरस्योद्धेदेन तद्वीजसत्ताऽनुमीयते, तथा मोक्षमार्गश्रवणेन यस्य रोमहर्षाश्रुपातो दृश्यते, तत्त्राप्यस्ति विशेषदर्शनबीजमपवर्गभागीयं कर्माभिनिर्वर्तितमित्यनुमीयते । तस्याऽऽत्मभावभावना [

[ विवरणम् ]

 तस्मादुच्यते---यत्किंचित् परसामान्यमात्रं स्वरूपेणोदाहरेद्वैनाशिकः स सर्वः संहत्यकारित्वात् परार्थ एव स्यात् । न देवदत्तार्दिसंहतार्थत्वम् । उभाभ्यामावाभ्यामनभ्युपगमात् । त्वमपि विज्ञानव्यतिरेकेण नान्यमभ्युपैषि । वयमपि पुरुषव्यतिरेकेण नान्यार्थत्वमभिवाञ्छामः । विज्ञानमात्रत्वं च नोपपद्यत इत्युक्तम् । अतो यस्त्वसौ परो विशेषः स न संहत्यकारी पुरुषः स्वार्थ इति सिद्धः । तस्मादस्ति भोक्ता तस्य स्वार्थस्य स्वेन दृश्येन परार्थेन यन्निमित्तः संयोगः । तद्वियोगात् कैवल्यमुपकल्पते ॥ २४ ॥


 गुणपुरुषयोगास्याविद्या निमित्तमुत्तम् । सा च विशेषदर्शिन आत्मानं विजिज्ञासमानस्य विनिवर्तते । तन्निवृत्तौ च लिङ्गमाह-विशेषदर्शिन आत्मभावभावनानिवृत्तिः । व्यक्ताव्यक्तसामान्याद्विशिष्टः पुरुषः असाधारणो विशेषः । तं विशेषं व्यक्ताव्यक्तसामान्यात् प्रविविच्य द्रष्टुं शीलं यस्य स विशेषदशीं । तस्य आत्मभावभावना निवर्तते । सा च सम्यग्दर्शनाभिमुखा ॥ कैवल्यप्रापिकर्मनिमित्ता ॥


 कथं पुनरात्मभावभावना अस्यास्तीति विज्ञायत इत्याह-यथा प्रावृषि तृणस्याङ्कुरोद्भेदेन लिङ्गेन तद्वीजसद्भावोऽनुमीय(गम्य)ते, तथा मोक्षमार्गश्रवणेन यस्य रोमहर्षाश्रुपातो दृश्यते, तत्राप्यस्ति विशेषदर्शनबीजमपवर्गभागीयं कर्माभिनिर्वर्तितमिति रोमहर्षाश्रुपातादिलिङ्गेन अनुमीयते ॥


1. तत्सर्वं    2. -मेव