पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/405

पुटमेतत् सुपुष्टितम्

कैवल्यपादः चतुर्थः

333

[ सूत्रम् ]

 प्रसङ्ख्यानेऽप्यकुसीदस्य सर्वथाविवेकख्यातेर्धर्ममेघः समाधिः ॥ २९ ॥

[ भाष्यम् ]

यदाऽयं ब्राह्मणः प्रसङ्ख्यानेऽप्यकुसीदस्ततोऽपि न किंचित् प्रार्थयते। तत्रपि विरक्तः सर्वथाविवेकख्यातिरेव भवतीति संस्कारबीजक्षयान्नास्य प्रत्ययान्तराण्युत्पद्यन्ते। तदाऽस्य धर्ममेघो, नाम समाधिर्भवति ॥ २९ ॥

[ सूत्रम् ]

 ततः क्लेशकर्मनिवृत्तिः ॥ ३० ॥

[ भाष्यम् ]

 तल्लाभादविद्यादयः क्लेशाः समूलकाषं कषिता भवन्ति । कुशलाकुशलाश्च कर्माशयाः समूलघातं हता भवन्ति ।

[ विवरणम् ]

 विवेकख्यातिप्रवणान्तःकरणस्य ब्राह्मणस्य प्रसंख्यानेऽप्यकुसीदस्य सर्वथाविवेकख्यातेर्धर्ममेघः समाधिः । स यदा अयं ब्राह्मणः प्रसंख्याने विवेकदर्शनशीलितेऽप्यकुसीदः अवृद्धिको भवति, ततोऽपि प्रसंख्यानप्रसादविशेषादधिकं न किंचित् प्रार्थयते । अपिशब्दात् प्रसंख्यानेऽपि न प्रार्थना तत्रापि प्रसंख्याने विरक्तः। सर्वथा सर्वेण प्रकारेण विवेकख्यातिर्यस्य स सर्वथाविवेकख्यातिरेव भवति ॥

 क्लेशसंस्कारबीजक्षयात् नास्य शरीरादौ शून्यवेश्मनीव अस्मि ममेति वा ज्ञानप्रसादमात्रैकायतनस्य प्रत्ययान्तराण्युत्पद्यन्ते । तदाऽस्य ब्राह्मणस्य सर्वथाविवेकख्याते: धर्ममेघो नाम समाधिर्भवति । कैवल्याख्यं परं धर्मं वर्षतीति धर्ममेघः इति संज्ञा ॥ २९ ॥

 ततः क्लेशकर्मनिवृत्तिः । तस्य धर्ममेघनाम्नः समाधेः सम्यग्दर्शनपाकाभिरूपस्य [ लाभात् ] भावात् अविद्यादयः क्लेशाः समूलकाषं कषिताः वासनाभिः सह समस्ताः प्रलीनाः भवन्ति । कुशलाकुशलाश्च कर्माशयाः समूलघातं हता भवन्ति । मूलैः क्लेशैः सहोच्छिन्ना भवन्ति ॥


 १. क्तस्य