पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/407

पुटमेतत् सुपुष्टितम्

३६६ पातञ्जलयोगसूत्रभाष्यविवरणे [ भाष्यम् ] क्षणानन्तर्यात्मा परिणामस्यापरान्तेनावसानेन निगृह्यते क्रमः । न ह्यननुभूतक्रमा पुराणता वस्त्रस्यान्ते भवति । नित्येषु च क्रमो दृष्टः ॥ द्वयी चेयं नित्यता कूटस्थनित्यता परिणामनित्यता च । तत्र कूटस्थनित्यता पुरुषस्य । परिणामनित्यता गुणानाम् । यस्मिन् परिणममाने तत्त्वं न विहन्यते तन्नित्यम् । उभयत्रतत्त्वस्याविघातान्नित्यत्वम् ।

[ विवरणम् ] क्षणानन्तर्यात्मा क्षणस्यानन्तरता क्षणानन्तर्यं तदात्मा तत्स्वभावः । क्षणानन्तर्यमेव 'क्षणतत्क्रमयोः' इति व्याख्यातम् ॥

किं पुनरस्य ग्रहणे लिङ्गमित्याह—परिणामस्यापरान्तेन विनाशावस्थारूपेण अवसानेन लिङ्गेन निगृह्यते सः क्रमः । कथमपरान्तेन निर्ग्रहणमिति ? उच्यते--न ह्यननुभूतक्रमा क्रममनवलम्बमाना क्षणे क्षणे पुराणता वस्त्रस्यान्ते विनाशकाले भवति इति । न हि कदाचिद्भूतमात्रस्यैव वस्त्रस्य पुराणता दृश्यते । तस्मात् पुराणताभिव्यक्तिलिङ्गेनाभ्यूह्मते--येनेयं पुराणता वस्रस्याभिव्यक्तिमुपसंप्रापिता स क्रमः ॥

तत्र यदि लब्धावसानत्वमलब्धावसानत्वं च क्रमस्य स्यात्, ततो युक्तं कृतार्थानां परिणामक्रमपरिसमाप्तिर्गुणानाम् इति वक्तुम् । तच्च लब्धलब्धावसानत्वं क्रमस्य नित्यानित्यत्वे घटते । तत्रानित्येषु वस्त्रादिषु क्रमो दृष्ट:, न तु नित्येषु । ततश्च गुणानां नित्यानां परिणामक्रमपरिसमाप्तिरयुक्ता स्यादित्याशङ्कमान आह-नित्येषु च क्रमो दृष्टः । किं सर्वत्र ? नेत्याह-द्विविघेयं नित्यता, परिणामनित्यता गुणानां, कूटस्थनित्यता पुरुषस्येति ||

ननु परिणामिनां गुणानां कथं नित्यता स्यादिति ब्रवीति---यस्मिन् परिणममाने तत्त्वं न विहन्यते । यस्य यद्रूपं प्रमाणेनोपलब्धं, तस्य तत् तत्त्वम्। तद्यस्मिन् न विहन्यते न व्यभिचरति, तदपि नित्यम् । गुणानामपि सुखदु:खमोहात्मता प्रकाशक्रियास्थितिशीलता च तत्वं न विहन्यते । तस्मादेतेsपि परिणामनित्याः । उभयत्र च गुणपुरुषेषु तत्त्वस्याविघातान्नित्यत्वम् । ततो गुणेष्वपि नित्येषु परिणामो दृष्ट इति लब्धलब्धपर्यवसान्त्वं स्थितम् ।

१. गृह्यते ४. तस्वानभि २. मक्षणा ५. यो. सू. 3-52. ३. स्य च